This page has not been fully proofread.

7
 
तू
 
1
 
न्यायकोशः ।
 
९५१
 
साधकं हेत्वन्तरं प्रतिपक्षः इत्युच्यते । स च धूमवत्रे हेतौ नास्त्येव ।
अनुपलम्भात् (त० मा० प्रमाणनि० पृ० १४ ) इति ।
सद्य:- (अव्ययम् ) १ तत्क्षणम् । यथा सद्यः शौचं विधीयते इत्यादौ ।
२ कचित् एकं दिनम् ।
 
-
 
सन् (धात्वंश: प्रत्ययः ) अयं धातुप्रकृतिकः प्रत्ययः । [क] कर्तु-
परिच्छा ( तर्का ० ४ पृ० ११ ) । स्वसामानाधिकरण्यस्वनिष्ठ विषयता-
निरूपितविषयित्वोभयसंबन्धेन प्रकृतधात्वर्थप्रधानीभूतव्यापार विशिष्टेच्छा
इत्यर्थः । यथा घटं चिकीर्षति इत्यादौ सन्प्रत्ययार्थः । यथा वा
पिपठिषति इत्यादौ सम्प्रत्ययार्थः (ल० म० ) । अत्रेदं बोध्यम् । सनुत्त-
राख्यातस्याश्रयत्वे लक्षणा । सविषयकार्थकप्रकृतिकाख्यातस्य आश्रयत्वे
• लक्षणाया घटं जानाति इत्यादी कृप्तत्वात् (तको ० ४ पृ० ११) इति ।
अत्र सन्नर्थेच्छायां धात्वर्थस्य कर्मत्व समानकर्तृकत्व एतदुभयसंबन्धेन वि
शेषणता बोध्या (ल० म० ) । [ख इच्छा । यथा पार्क चिकीर्षति
भोदनं बुभुक्षते इत्यादौ सन्प्रत्ययार्थः । अत्र सन्प्रत्ययार्थेच्छायां द्विती-
यान्तेन लभ्यस्य पाकादिविशेष्यताकत्वस्य स्वरूपसंबन्धेन धात्वर्थस्
तु कृत्यादेः स्वसाध्यत्वादिप्रकारिनिष्ठस्व समान कर्तृत्वसंबन्धेन अन्वयात्
पाकधार्मिका निरुक्तसंबन्धेन कृतिमती या इच्छा तद्वान् इत्यादिरर्थः ।
अत्र समानकर्तृकत्वस्य निवेशात् अन्य दीयकृति विषयपाकादाविच्छावति
अयं चिकीर्षति पिपक्षति इत्यादिको न प्रयोगः इति चिन्तामणिकृत
आहुः । सौन्दडस्तु प्राह । पाकं चिकीर्षतीत्यादौ द्वितीयार्थस्य विषयत्वस्य
• मूलधात्वर्थ एवान्वयः । तदर्थस्य तु समानकर्तृकत्व विषयत्वाभ्य
सन्नर्थेच्छायाम् । तथा च पाकविषयताककृतिसमान कर्तृकत गोचरेच्छा-
वान् इत्यादिरेवार्थः । कारकविभक्तेः क्रियायामेव स्वार्थबोधकत्वात् ।
अत एव गृहं तिष्ठासति इत्यादिको न प्रयोगः । स्थितेगृहकर्मकत्व-
बाधात् । अन्यथा गृहधर्मिकां स्थितिप्रकारकेच्छां बोधयन्नयमेव प्रमाणं
स्यात् । न तु गृहे तिष्ठासति इत्यादिः (श० प्र० श्लो० १०९ टी० पृ०
१९७०-१७१) इति । [ग] धात्वर्थविशेष्यकेच्छा । यथा पार्क
 
.
 
-