2023-12-26 06:00:30 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

९५०
 
न्यायकोशः ।
 
BOR
 
200
 
<सद्धेतुः>
( हेतुः ) [क] पञ्चरूपोपपन्नो हेतुः । पञ्च रूपाणि तु पक्षसत्त्वम्

संपक्षसत्त्वम् विपक्षासत्त्वम् अबाधित विषयत्वम् असत्प्रतिपक्षत्वं चेति ।

अत्रेदं बोध्यम् पञ्चरूपोपपन्न एव हेतुः स्वसाध्यं साधयितुं क्षमते न लेके-

नापि रूपेण हीन: ( त० मा० प्रमाणनि० पृ० १३ ) इति ।[ख]

व्यायादिविशिष्टहेतुः ( नील० २ पृ० २४) । [ग] प्रमितव्याति-

पक्षधर्मताको हेतुः । स्वसाध्या नुमित्यौपथिकप्रमात्मक परामर्शवान् इति

यावत् ( ग० सत्प्र०) । यथा पर्वतो वह्निमान् घूमात् इत्यादौ धूमः

सद्धेतुः । अत्रायमर्थः । पर्वतत्वसामानाधिकरण्येन वहेः साध्यत्वविवक्षापा

मेव धूमः सद्धेतुर्भवति न तु पर्वतत्वावच्छेदेन वह्नेः साध्यत्व विवक्षा

धूमः सद्धेतुः । तत्र पर्वतत्वावच्छेदेन वहेरभावात् इति । अयं भावः ।

अवच्छेदकावच्छेदेन वहे साध्यत्वे सामानाधिकरण्येन वह्नयभाव

प्रसिद्धत्वेन तस्य च बाधरूपत्वात्तत्रत्यो हेतुर्हेत्वाभास एव भवति । अतः

सामानाधिकरण्येनैव वः साध्यत्वं विवक्षणीयम् । तथा च सति

साध्यवत्ताबुद्धिं प्रत्यप्रतिबन्धकत्वेन हेत्वाभासलक्षणानाक्रान्तत्वान त

सामानाधिकरण्येन वह्नयभावस्य सत्त्वेपि तद्विषयकनिश्चयस्य तत्रव्य-

बाधत्वम् । अवच्छेदकावच्छेदेन वयभावविषयक निश्चयस्य प्रतिबन्धक

त्वेपि तादृशवह्नयभावस्य चाप्रसिद्धत्वेन तत्र न कोपि हेत्वाभासदः

सूक्ष्मदर्शिभिः सुधीभिर्विभावनीयम् ( ग० २ हेत्वा० सामान्यनि० ) ।

इति सामानाधिकरण्येन वह्निसाध्यकस्थलीयधूमः सद्धेतुर्भवति इति

अत्रेदं बोध्यम् । उक्तानि पञ्चरूपाणि धूमवत्वादावन्वयव्यतिरेकिण्येव

हेतौ विद्यन्ते । तथा हि (१) धूमवत्वं पक्षस्य पर्वतस्य धर्मः / त

विद्यमानत्वात् । (३) एवम् विपक्षात् महाहदात् व्यावृत्तिः ।

पर्वते विद्यमानत्वात् । (२) एवं सपक्षे सत्त्वम् / सपक्षे महान

घूमो नास्ति इति । ( ४ ) एवम् अबाधितविषयं धूमवत्वम् / तथा ।

धूमवत्वस्य हेतोर्विषयः साध्यो धर्मः । तच्चाग्निमत्त्वम् / तल्केना

प्रमाणेन न बाधितम् न खण्डितम् इत्यर्थः । (५) एवम् स्

प्रतिपक्षो यस्य इत्यसप्रतिपक्षं घूमवत्वम् / तथा हि साध्यविपरी