This page has not been fully proofread.

९५०
 
न्यायकोशः ।
 
BOR
 
200
 
सद्धेतुः – ( हेतुः ) [क] पञ्चरूपोपपन्नो हेतुः । पञ्च रूपाणि तु पक्षसत्त्वम्
संपक्षसत्त्वम् विपक्षासत्त्वम् अबाधित विषयत्वम् असत्प्रतिपक्षत्वं चेति ।
• अत्रेदं बोध्यम् पञ्चरूपोपपन्न एव हेतुः स्वसाध्यं साधयितुं क्षमते न लेके-
नापि रूपेण हीन: ( त० मा० प्रमाणनि० पृ० १३ ) इति ।[ख]
व्यायादिविशिष्टहेतुः ( नील० २ पृ० २४) । [ग] प्रमितव्याति-
पक्षधर्मताको हेतुः । स्वसाध्या नुमित्यौपथिकप्रमात्मक परामर्शवान् इति
यावत् ( ग० सत्प्र०) । यथा पर्वतो वह्निमान् घूमात् इत्यादौ धूमः
सद्धेतुः । अत्रायमर्थः । पर्वतत्वसामानाधिकरण्येन वहेः साध्यत्वविवक्षापा
मेव धूमः सद्धेतुर्भवति न तु पर्वतत्वावच्छेदेन वह्नेः साध्यत्व विवक्षा
धूमः सद्धेतुः । तत्र पर्वतत्वावच्छेदेन वहेरभावात् इति । अयं भावः ।
अवच्छेदकावच्छेदेन वहे साध्यत्वे सामानाधिकरण्येन वह्नयभाव
प्रसिद्धत्वेन तस्य च बाधरूपत्वात्तत्रत्यो हेतुर्हेत्वाभास एव भवति । अतः
सामानाधिकरण्येनैव वः साध्यत्वं विवक्षणीयम् । तथा च सति
•साध्यवत्ताबुद्धिं प्रत्यप्रतिबन्धकत्वेन हेत्वाभासलक्षणानाक्रान्तत्वान त
सामानाधिकरण्येन वह्नयभावस्य सत्त्वेपि तद्विषयकनिश्चयस्य तत्रव्य-
बाधत्वम् । अवच्छेदकावच्छेदेन वयभावविषयक निश्चयस्य प्रतिबन्धक
त्वेपि तादृशवह्नयभावस्य चाप्रसिद्धत्वेन तत्र न कोपि हेत्वाभासदः
• सूक्ष्मदर्शिभिः सुधीभिर्विभावनीयम् ( ग० २ हेत्वा० सामान्यनि० ) ।
इति सामानाधिकरण्येन वह्निसाध्यकस्थलीयधूमः सद्धेतुर्भवति इति
अत्रेदं बोध्यम् । उक्तानि पञ्चरूपाणि धूमवत्वादावन्वयव्यतिरेकिण्येव
हेतौ विद्यन्ते । तथा हि (१) धूमवत्वं पक्षस्य पर्वतस्य धर्मः / त
विद्यमानत्वात् । (३) एवम् विपक्षात् महाहदात् व्यावृत्तिः ।
पर्वते विद्यमानत्वात् । (२) एवं सपक्षे सत्त्वम् / सपक्षे महान
घूमो नास्ति इति । ( ४ ) एवम् अबाधितविषयं धूमवत्वम् / तथा ।
धूमवत्वस्य हेतोर्विषयः साध्यो धर्मः । तच्चाग्निमत्त्वम् / तल्केना
प्रमाणेन न बाधितम् न खण्डितम् इत्यर्थः । (५) एवम् स्
प्रतिपक्षो यस्य इत्यसप्रतिपक्षं घूमवत्वम् / तथा हि साध्यविपरी