This page has not been fully proofread.

**
 
*
 
al
 
न्यायकोशः ।
 
९४९
 
नवीनाः पुनरेवं वर्णयन्ति । यत्संबन्धिसाध्याभावव्याप्य हेत्वन्तरस्य सत्त्वं
पक्षेस सत्प्रतिपक्ष इत्यर्थः (नील० २ पृ० २६ ) इति । सत्प्रतिपक्ष-
शब्दस्य व्युत्पत्त्यादिकं प्रदर्शयन्ति साध्याभाव साधकहेत्वन्तरं प्रतिपक्षः
• तद्वान् सत्प्रतिपक्षः ( त० कौ० ) इति । २ ( हेतुदोषः ) [क]
पक्षे साध्यधीप्रतिबन्धकपरामर्शः । यथा जलमुष्णं स्पर्शत्वादित्यादौ
श्लो० ७८) । ख साध्याभावव्याप्यवत्पक्षः साध्यवदन्यत्वव्याप्यव-
नेदमुष्णमतेजस्त्वादित्यादिः ( न्या० म० २ पृ० २१ ) ( मा० प०
 
त्पक्षः पक्षनिष्ठः
 
•साध्याभावव्याप्यः पक्षनिष्ठः साध्यवद्भेदव्याप्यः
 
(दीधि० ) ( दि० २ पृ० १६०) । साध्यवदवृत्तिव्याप्यवत्पक्षः
पक्षनिष्ठः साध्यवदवृत्तिव्याप्यः पक्षवृत्त्यभावप्रतियोगित्व व्याप्यवसाध्यम्
साध्यनिष्ठ: पक्षवृत्त्यभावप्रतियोगित्वव्याप्यश्च । यथा हृदो वह्निमान्
• धूमात् इत्यादौ वह्नयभावव्याप्यवद्धदादिः सत्प्रतिपक्ष: (ग० २ ) ।
• एतेषामष्टानां सत्प्रतिपक्षस्वरूपाणामन्यतमत्वादिनानुगमकरणान्न सत्प्रति-
पक्षविभागव्याघातः ( दि० २ हेत्वा० पृ० १६० ) इति ।
सत्यम् - सत्यशब्दो द्रष्टव्यः ।
 
सदाचार:-[क] मन्वायुक्तदेशप्रचलिताचारः । अत्र व्युत्पत्तिविग्रहौ
• साधवः क्षीणदोषाश्च सच्छब्दः साधुवाचकः । तेषामाचरणं यत्तु सदा-
चारः स उच्यते ॥ इति । मनुना चेत्थमुक्तम् सरस्वती दृषद् त्योर्देवनद्योर्यद-
अन्तरम् । तं देवनिर्मितं देशं ब्रह्मावर्त प्रचक्षते ॥ तस्मिन् देशे य
• आचार: पारंपर्यक्रमागतः । वर्णानां सान्तरालानां स सदाचार उच्यते ॥
( मनु० अ० २ श्लो० १७-१८ ) इति । यथा वेदः स्मृतिः सदाचारः
• स्वस्य च प्रियमात्मनः । एतच्चतुर्विधं प्राहुः साक्षाद्धर्मस्य लक्षणम् ॥
१ ( मनु० २११२) इत्यादौ सदाचारशब्दस्यार्थः । स्वधर्मत्यागे हानिरुक्ता
तस्मात्स्वधर्मं न हि संत्यजेच न हापयेच्चापि तथात्मवंशम् । यः संत्यजे-
• इति । [ख] शिष्टाचारः । यथा आधुनिकशिष्टानामाचारः । तथा च
चापि निजं हि धर्म तस्मै प्रकुप्येत दिवाकरश्च ॥ (वामनपु० अ० १४ )
• तत्त्वचिन्तामणौ स्मृति: यस्मिन्देशे य आचार: पारंपर्यक्रमागतः ।
श्रुतिस्मृत्यविरोधेन सदाचारः स उच्यते ॥ (चि० १ मङ्गलवा
 
पृ० ११२) इति ।