न्यायकोशः /1001
This page has been fully proofread once and needs a second look.
जोव
न्यायकोशः ।
९४७.
यथा पर्वतो वह्निमान्धूमान्महानसवत् पर्वतो वहयभाववान् पाषाणमय-
वात् कुड्यवत् ( त० कौ० २ पृ० १४ ) इति । अयं च प्राचीन-
मतानुसारी व्यावहारिकः सम्प्रतिपक्ष इत्युच्यते । अत एव सन् विद्यमानः
प्रतिपक्षो विरोधिव्यायादिमत्तया परामृश्यमानो हेतुः विरोधिप।मर्शो
वा यस्य परामृश्यमानस्य हेतोरसौ सत्प्रतिपक्षः इति विग्रहमपि वर्णयन्ति ।
अतस्तदनुसारेणैव व्यवहारौपयिकं लक्षणमाह मणिकार: ( दीधि० २
पृ० २०८) । अत एव इत्यस्यार्थस्तु प्रकृतपरामर्शस्य विरोधिपरामर्श-
•
साध्यविरोध्युपस्थापनसमर्थसमानबलोपस्थित्या प्रतिरुद्धकार्यकलिङ्गध्वम् ।
•
स्यासत्त्वदशायां सत्प्रतिपक्षव्यवहारविरहादेव इति । सत्प्रतिपक्षत्वं च
बलं च व्याप्तिपक्षधर्मते । अथ वा विरोधिबोधकान्यगमकतौपयिकरूपसंप
त्तिमत्तया ज्ञायमानेन प्रतिरुद्धकार्यकत्वम् (चि० २ पृ० ९४-९५) । अत्र
उपस्थित समानबलत्वं चानाप्तोक्तत्वेनानिश्चितत्वम् प्रकृतसाध्यानुमापक-
•
बलशालिवे सति प्रकृतसाध्याभावानुमापकबलशालिहेत्वन्तरकत्वं वा इति
विज्ञेयम् । साध्यविरोधीत्यादेरर्थस्तु साध्यस्य साध्यसिद्धेः विरोधिन्याः पक्षो
न साध्यवान् इत्याधुपस्थितेः यद्वा साध्यविरोधी साध्यवत्ताज्ञान प्रतिबन्धक
•
ज्ञानविषयः बाध: साध्याभावादिमत्पक्षादिः तदुपस्थितेर्वा जननयोग्यया
•
समानया बलोपस्थित्या तथाविधव्या त्यादिबुद्ध्या प्रतिरुद्धं कार्य यस्य तादृश-
•
लिङ्गत्वम् इति । अत्र समानबलत्वं चागृहीताप्रामाण्यकसाध्यसिद्ध्यौप-
•
यिकपरामर्शकालीनत्वम् ( दीधि ० २ हेत्वा० पृ० २०८-२०९ ) ।
•
निष्कृष्टास्तु प्रकृतानुमितिविरोध्यनुमितियोग्यपरामर्शप्रयुक्ताग्रिमक्षणा-
वच्छिन्नानुत्पादप्रतियोगिप्रकृतानुमितिजनकतावच्छेदकीभूत परामर्शी-
यता विशेष विशिष्टत्वम् (ग० व्यावहारि० सत्प्र० निर० पृ० ७) इति ।
अत्रेदमवधेयम् । पर्वतो वह्निमान् धूमात् इत्यादिसद्धेतुस्थलेपि वहिव्याप्य-
घूमवान् वह्नयभावव्याप्यपाषाणमयत्ववांश्च पर्वतः इति परामर्शद्वय-
संवलनदशायां प्रकृतोयं धूमो हेतुः सत्प्रतिपक्षितः इति व्यवद्दियत
इत्यनुभवमनुरुद्ध्येदमुक्तम् । एतस्य दूषकताबीजं च समानबलविरोधि-
सामग्री प्रतिबन्धेन निर्णयाजनकत्वम् । एकत्र व्यातिभङ्गज्ञानद्वारा वास्य
USA
-