2025-09-17 08:54:11 by mahesh839067@gmail.com

This page has been fully proofread once and needs a second look.

तृतीयावृत्तावुपोद्धातः ।
 

 
शास्त्रान्तर्गताः प्रत्यहं समुपयुज्यमाना ग्रन्थेषु च समुपलभ्यमानाः परिभाषा:

संज्ञाश्च जिह्वाग्र एवावर्तन्तेति न तदानीं स्वल्पमपि प्रयोजनमासीन्यायशा-

स्त्रविषये कोशादिग्रन्थनिर्माणस्य । न्यायशास्त्रपारदृश्वनामधीतसाङ्गसशि-

रस्कन्यायवैशेषिकदर्शनग्रन्थानां जिह्वाग्रसमुपस्थितप्रधान

ग्रन्थशास्त्रार्थविष-

याणां प्रतिक्षणक्रियमाणगहन विषय विभावनासंजनितशेमुषीसंस्काराणां

यिकपण्डितप्रकाण्डानां न काचिदण्यावश्यकतासीन्यायशास्त्र विषये कोश -

न्थावलोकनस्य कोशग्रन्थविरचनस्य वा । अपरं च न कस्यापि विषयस्य

नवा
 

 
नैया-

कोशग्रन्थेषु प्रतिभापरिप्लुतो नवीनतयोपन्यासः
 

 
कर्तुं पार्यत इति नूनमनादर एवासीत्प्राचीनानां पण्डितानां कोशरचनकर्मणि

चर्वितस्यैव पुनश्चर्वणप्रणयिनि । इदानींतनास्तु शास्त्राध्येतारः स्वयमचीय-

मानशास्त्रगतानपि न सर्वान्प्रमाणभूतान्ग्रन्थान्साकल्येनाधीयाना दृश्यन्ते,

दूरत एव वार्तेतरशास्त्रगतानां प्रमुखग्रन्थानामध्ययनस्य । अनधीत्य प्रमाण-

भूतान्पञ्चषानपि शास्त्रग्रन्थानधुना त्वरिताः शास्त्र पण्डिता भवन्ति ये स्वयम-

धीतानामल्पसंख्याकानां ग्रन्थानामध्ययनमपि न सर्वाङ्गीणतया कुर्वन्ति न

पङ्किश: पाठान्गृहन्ति न च मुखप्रोक्तं ग्रन्थं कुर्वन्ति । सर्वथाध्ययनार्थ

स्वीकृतस्यापि शास्त्रस्य ग्रन्थेषु सम्यगुपस्थितिरहितानामितरशास्त्रेष्वालोडनं

चिकीर्षूणामिदानींतनानामध्यापकानामध्येतॄणां च सम्यग्रन्थानुपस्थितौ तेषु

तेषु स्थलेषु परिदृश्यमानानां शास्त्रीयपरिभाषाणां संज्ञानां च सम्यगवबोधाय

मुहुर्मुहुः कोशदर्शनावलम्ब एव कर्तव्यतयापतति । यथा यथा ग्रन्थोपस्थि-

तिराहित्यं विवर्धते तथा तथा न केवलं कोशादिग्रन्थावलोकनं प्रत्यनन्यग-

तिकतयाधिकाधिका प्रवृत्तिर्भवति किं तु कोशसदृशप्रन्धराहिये स्वाभीप्सि-

तमन्थाध्ययनकर्मण्यमीषां संचारो दृगन्धानामिव भवति राजवर्त्मनीति यदि

ब्रूमस्तर्हि तत्र नातिशयोक्तिलेशस्याप्यवकाशः ॥
 

 
३ सागरवदतिगभीरेषु तेषु तेषु शास्त्रेष्ववगाहनां कृत्वा तत्तच्छास्त्रग-

तानां बहुविधानां विषयाणां सूक्ष्मार्थानां च सम्यगाकळनं कृतवतां पण्डि-

तानामिदानींतने काले प्रतिदिनं परिजायमानं दौर्लभ्यं समीक्षमाणा मन्यामहे

यथा--" देवीं वाचमुपासते हि बहवः सारं तु सारस्वतं जानीते नितरा-