This page has not been fully proofread.

न्यायकोशः ।
 
स्थितिसमर्थपरामर्श कालीन साध्यसिद्धिसमर्थ परामर्शविषयः (दीधि ० २ ) ।
यथा पर्वतो वह्निमान्धूमान्महान सवत् पर्वतो वहयभाववान् पाषाणमय-
त्वात् कुड्यवत् ( त० कौ० २ पृ० १४ ) इति । अयं च प्राचीन-
मतानुसारी व्यावहारिकः सम्प्रतिपक्ष इत्युच्यते । अत एव सन् विद्यमानः
प्रतिपक्षो विरोधिव्यात्यादिमत्तया पराभृश्यमानो हेतुः विरोधिपरामर्शो
वा यस्य परामृश्यमानस्य हेतोरसौ सत्प्रतिपक्षः इति विग्रहमपि वर्णयन्ति ।
अतस्तदनुसारेणैव व्यवहारौपयिकं लक्षणमाह मणिकारः ( दीधि० २
पृ० २०८) । अत एव इत्यस्यार्थस्तु प्रकृतपरामर्शस्य विरोधिपरामर्श-
स्यासत्त्वदशायां सव्प्रतिपक्षव्यवहारविरहादेव इति । सप्रतिपक्षत्वं च
साध्य विरोध्युपस्थापनसमर्थसमानबलोपस्थित्या प्रतिरुद्धकार्यकलिङ्गत्वम् ।
बलं च व्याप्तिपक्षधर्मते । अथ वा विरोधिबोधकान्यगमकतौ पयिकरूपसंप-
त्तिमत्तया ज्ञायमानेन प्रतिरुद्धकार्यकत्वम् (चि० २ पृ० ९४-९५) । अत्र
उपस्थितौ समानबलत्वं चानाप्तोक्तत्वेनानिश्चितत्वम् प्रकृतसाभ्यानुमापक-
बलशालित्वे सति प्रकृतसाध्याभावानुमापकबलशालिहेत्वन्तरकत्वं वा इति
विज्ञेयम् । साध्यविरोधीत्या देरर्थस्तु साध्यस्य साध्यसिद्धेः विरोधिन्याः पक्षो
न साध्यवान् इत्याधुपस्थितेः यद्वा साध्यविरोधी साध्यवत्ताज्ञान प्रतिबन्धक
ज्ञान विषयः बाध: साध्या भावादिमत्पक्षादिः तदुपस्थितेर्वा जननयोग्यया
समानया बलोपस्थित्या तथा विधव्यायादिबुद्ध्या प्रतिरुद्धं कार्य यस्य तादृश-
लिङ्गस्वम् इति । अत्र समानबलत्वं चागृहीताप्रामाण्यकसाध्यसिद्ध्यौप-
यिकपरामर्शकालीनत्वम् ( दीधि ० २ हेत्वा० पृ० २०८-२०९)।
निष्कृष्टार्थस्तु प्रकृतानुमिति विरोध्यनुमितियोग्यपरामर्शप्रयुक्ताग्रिमक्षणा-
विष-
वच्छिन्नानुत्पादप्रतियोगिप्रकृतानुमितिजनकतावच्छेदकीभूतपरामर्शीय
यताविशेषविशिष्टत्वम् (ग० व्यावहारि० सत्प्र० निर० पू० ७ ) इति ।
अत्रेदमवधेयम् । पर्वतो वह्निमान् धूमात् इत्यादिसद्धेतुस्थलेपि बहिव्याप्य
घूमवान् वड्यभावव्याप्यपाषाणमयत्ववांश्च पर्वतः इति परामर्शद्वय-
संबळनदशायां प्रकृतोयं घूमो हेतुः सत्प्रतिपक्षितः इति व्यवद्दियत
.इत्यनुभषमनुरुज्येदमुक्तम् । एतस्य दूषकताबीजं च समानबलविरोधि-
सामग्रीप्रतिबन्धेन निर्णयाजनकत्वम् । एकत्र व्याप्तिभङ्गज्ञानद्वारा वास