This page has not been fully proofread.

न्यायकोशः ।
 
विराजते । अपुनर्मारका यत्र ब्रह्मलोकाभिधः स्मृतः ॥ ( विष्णुपु ०
अंश ० २ अ० ७) इति । ९ स्वीकारः । अत्रार्थे सत्यमित्यव्ययम्
इति विज्ञेयम् ।
 
सत्त्वम् - १ सत्ताशब्दषदस्यार्थोनुसंधेयः । २ सांख्यास्तु प्रकाशादिसाधनं
: प्रकृत्यवयवः ( प्रकृतेः सत्त्वगुणः ) पदार्थः । यथा सत्त्वात्संजायते
ज्ञानम् इत्यादौ सत्त्वशब्दस्यार्थ इत्याहुः । तदुक्तम् सत्वं लघु प्रकाशक-
मिष्टमुपष्टम्भकं चलं च रजः । गुरु वरणकमेव तमः प्रदीपवच्चार्थतो
वृत्तिः ॥ (सांख्यका० १३) इति । अत्र लघुत्वं प्रकाशकत्वं च सत्त्वस्य
लक्षणम् (सांख्यचन्द्रि० १३) इति । ३ वैयाकरणाश्च द्रव्यम् । यथा
सत्वे निविशतेपैति पृथग्जातिषु दृश्यते । आधेयश्चाक्रियाजश्व सोसव
प्रकृतिर्गुणः ॥ ( व्या० का० ) सत्त्वप्रधानानि नामानि ( निरुक्त० )
इत्यादौ सत्त्वशब्दस्यार्थ इत्याहुः । सत्त्रे निविशत इत्यस्यार्थश्च वोतो
गुणवचनात् ( पाणि० सू०४।१।४४) इति सूत्रे तत्त्वबोधिन्यां
स्त्रीप्रत्ययप्रकरणे द्रष्टव्यः । ४ योगशास्त्रज्ञास्तु चित्तम् । यथा सस्त्रे
तप्यमाने तत्संक्रान्तः पुरुषोपि तप्यते ( पात० भा० ) इत्यादौ सत्त्व-
शब्दस्यार्थ इत्याहुः । ५ प्राणाः इत्यौपनिषदा आहुः । ६ पिशाचादिः
इति मात्रिका आहुः । ७ आयुः इति भिषज आहुः । ८ व्यवसाय: ।
९ बलं चेति काव्यज्ञा आहुः । १० स्वभावः । ११ आत्मा । १२ जन्तुश्च
इत्यन्ये वदन्ति ( शब्दच ० ) । १३ जगत्कारणे येयं सुखारमकता तत्स-
त्वम् (सर्व० सं० पृ० ३२६ सां०) । १४ अर्थक्रियाकारित्वं सस्वम् (सर्व०
सं० पृ० ५० आई० ) । १५ त्रिविधं सखम् परमार्थसत्त्वं ब्रह्मणः ।
अर्थक्रियासामर्थ्य सत्त्वं मायोपाधिकमाकाशादे: । अविद्योपाधिकं सत्वं
: रजतादे: ( सर्व० सं० पृ० ४४६ शां० ) ।
 
सत्प्रतिपक्षः - १ ( हेत्वाभासः दुष्टहेतुः ) अयं च प्रकरणसमः इत्युच्यते
 
-
 
( म० प्र० २ पृ० २७ ) ( त० मा० १० ४९ ) । अत्र तुल्यबल-
योरेव सरप्रतिपक्षत्वम् नातुल्यबलयोः इति नियमः । तेन एकतरन्न
तर्कादिबलसत्रे तस्यैवेतरबाधकता इति बोध्यम् । [क] बाधोप-