This page has not been fully proofread.

न्यायकोशः ।
 
स्वार्थव्यापार-
4
 
सकर्मकः । अथ वा स्वार्थफलव्यधिकरणव्यापारबाची
व्यधिकरणफलवाची वा धातुः सकर्मकः इत्याहु: (वै० सा० ) ।
स्वार्थफलेल्यत्र स्खशन्देन धातुर्माह्यः । व्यधिकरणत्वं च कर्तृभिन्नतद्-
धिकरणावृत्तित्वम् । तथा च प्रामं गच्छति इत्यादौ संयोगरूपं फल
ग्रामे तदनुकूळव्यापारस्तु कर्तरि चैत्रे तिष्ठति इति फलव्यापारयोर्वेय-
धिकरण्यं संगच्छते इति । अत्रोक्तम् फलव्यापारयोरेकनिष्ठतायामकर्मकः ।
धातुस्तयोर्धर्मिभेदे सकर्मक उदाहृतः ॥ इति । स्वार्थव्यापारेत्यत्र व्यधि-
करणत्वं च तदधिकरणावृत्तित्वम् (वै० सा० द० ) । व्यापाराधिकरण-
मात्रावृत्तिफलवा चकत्वम् इति परमार्थः । तथा हि पच्यादेर्व्यापारा-
`धिकरणावृत्तिविक्कित्तिरूपफलस्य बोधकतया सकर्मकत्वम् । कर्तृकर्मो-
भयनिष्टफलबोधकस्यापि गम्यादेर्व्यापाराधिकरणमात्रावृत्तिफलबोधकतया
सकर्मकत्वम् । भूप्रभृतीनां तु व्यापाराधिकरणमात्रवृत्तिफलबोधकतया
न सकर्मकत्वम् । फलस्य सत्तायाः तत्संबन्ध रूपव्यापारस्य चैकस्मिन्नेव
धर्मिणि घटोस्तीत्यत्र घटादौ सत्त्वात् ( वाच ० ) । अत्रोक्तं भर्तृहरिणा
आत्मानमात्मना विश्रदस्तीति व्यपदिश्यते । अन्तर्भावाच्च तेनासौ
कर्मणा न सकर्मकः ॥ इति वाक्यपदीयें। आत्मानं जानाति इच्छ-
तीत्यादौ चेत्थं सकर्मकत्वव्यवस्था । द्वावात्मानौ शरीरात्मा अन्तरात्मा
चेति । तत्रान्तरात्मा तत्कर्म करोति येन शरीरात्मा सुखदुःखे अनुभव-
तीति कर्मवत्कर्मणा तुल्यक्रिय: ( पाणि० ३।१।८७ ) इति सूत्रीय-
भाष्योक्तरीत्या भिन्नाधिकरणनिष्ठतामादाय सकर्मकत्वमवधेयम् (३०
सा० पृ० ४३ ) । अत्राधिकं तु धातुशब्दव्याख्यानावसरे संपादितं
तत्तत्र दृश्यम् । [ घ ] प्राञ्चो वैयाकरणास्तु व्याकरणशास्त्रीयकर्म-
संज्ञकार्यान्वय्यर्थको धातुः सकर्मकः इत्याहुः । तेन अध्यासिता भूमयः
इत्यादिप्रयोगः सिद्ध्यति इति विज्ञेयम् ( ल० म० घा० पृ० ५ ) ।
[ङ ] मीमांसकास्तु प्रत्ययार्थव्यापार व्यधिकरणकलवाचको धातुः
सकर्मकः : इत्याहुः ।
 

 
सकलः – मलमायाकर्मात्मक बन्धत्रयसहितः सकल ( सर्व० सं० १०
 
-
 
१८३ शै० ) ।