2023-02-20 00:57:21 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
पनिला दिया धातूपसर्गथोः । निखा समासे वाक्ये तु सा विव-
भ्रामपेक्षते ॥ इति ।
सकर्मकः - ( धातुः ) [ क ] आश्रयानवच्छिन्नफलावच्छिन्नव्यापार-
बोधकः । यथा चैत्रो ग्रामं गच्छतीत्यादौ संयोगानुकूलव्यापारबोधको
गम्बातुः सकर्मकः (ग० व्यु० का० २) (बै० सा० पृ० ६०-६१)।
अत्र अग्नौ जुहोति इत्यादौ अभ्यादिनिष्ठफलं गृहीत्वा धातोः सकर्मकत्व-
वारणाय आश्रयानवच्छिन्न इति फलविशेषणम् । परे तु धातोः फलं
व्यापारध द्वयमर्थ इति धातोः स्वार्थफलावच्छिन्न स्वार्थक्रियान्वयबोधकत्वं
सकर्मकत्वम् । जानाति इत्यादौ सकर्मकत्वव्यवहारो भाक्तः इत्याहुः ।
जानात्यादीनां धातूनां तु नामार्थान्वितोद्देश्यत्वाति रिक्तविषयस्वरूप-
विभक्त्यर्थान्वय्यर्थकत्वात्मकं गौणं सकर्मकत्वम् इति ज्ञेयम् ( का०
व्या० पृ० ३ ) । प्राञ्चस्तु सर्वत्र क्रियामात्रं धात्वर्थः । द्वितीया-
साकाङ्क्षतुमन्तधातुत्वप्रयुक्त एव च धातूनां सकर्मकत्वव्यपदेशः । न तु
फलावच्छिन्नक्रियावाचित्वप्रयुक्तः । ज्ञाप्रभृताव व्याप्तत्त्वात् इत्याडु: ( श०
प्र० श्लो० ७३ पृ० ९३ ) ( त० प्र० ख० ४ पृ० ८३ ) ।
अत्रायं विशेषः । वृक्षात्पर्ण पततीत्यादावपि अधःसंयोगावच्छिन्नस्पन्दस्य
पतधात्वर्थत्वेन धात्वर्थतावच्छेद कसंयोगात्मक फलशालिनो भूतलादेरपि
कर्मत्वविषक्षायां वृक्षात्पर्णे भूमितलं पतति इति प्रयोग इष्ट एव । अत
एवं द्वितीया श्रितातीतपतित ० ( पाणि० २।१।२४ ) इत्यादिसूत्रे पतित-
शब्दप्रयोगे द्वितीयासमासविधानम् तदुदाहरणं च नरकं पतितः नरक-
पतितः इति साधु संगच्छते । परे तु यदि च तत्र सकर्मकत्व व्यवहारो
नेष्टः तदा कर्तृभिन्नान्वयिफला वच्छिन्नव्यापारबोधकस्यैव धातोः सकर्म-
कत्वम् । यथा गम्यादेः । न तु पतेः । अधःसंयोगरूपफलस्य पर्णे
कर्तरि एवान्वितत्वात् । अधः इत्यस्य संबन्धिसाकाङ्क्षतया संघन्धिश्वेन
पर्णस्यैवान्वयात् इत्यादुः ( का० व्या० पृ० ४ ) (ग० व्यु०
का० २)। [ख] फलान्वितव्यापारबोधकः इति प्राथो नैयायिका
आहुः । [ग] शाब्दिकास्तु व्यापारानधिकरणवृत्तिफलबोधको धातुः