2023-02-20 00:57:20 by ambuda-bot
This page has not been fully proofread.
न्यायकोचः ।
९३९
सामान्यगुणात्मविशेषगुणोभयवृत्तिगुणत्वव्याप्यजातिमान् (सि० च०
पृ० ३५ ) । तस्यायमर्थः । सामान्यगुणो वेगः स्थितिस्थापको वा ।
आत्मविशेषगुणस्तु भावना । एतदुभयवृत्तिः गुणत्वव्याप्या च या जाति:
तद्वान् संस्कार इति । सा च जातिः संस्कारत्वात्मिका भवति इति
विज्ञेयम् ( त० दी० पृ० ३८ ) । संस्कारत्वं न जातिः इति व्यवस्था-
पने प्रायतन्त चषकादौ ( वाच० ) । [ ग] यज्जातीयात्समुत्पाद्य-
स्तज्जातीयस्य कारणम् । स्वयं यस्तद्विजातीय: संस्कारः स गुणो
भवेत् ॥ ( ता० र० श्लो० ४८) । अनुबन्धो भावना स्मृतिहेतुः
संस्कार इति न्यायवार्तिके उक्तम् । त्रिविधसंस्कारमध्ये भावना विशेष-
गुणः । वेगः स्थितिस्थापकश्च सामान्यगुण इति विज्ञेयम् । २ धर्म-
ज्ञास्तु सतो गुणान्तरराधानात्मकः प्रतियत्नः । यथा अलंकारादेरुद्दीपनम्
अन्नादेर्निशातनम् वस्त्रादेर्मार्जनम् दर्पणादेर्निर्मलीकरणम् ब्रीह्यादेव
यज्ञाङ्गतासंपादनाय वैदिकमार्गेण प्रोक्षणादिः संस्कार इत्याहुः । अत्र
मतभेदाः । प्रोक्षणाभ्युक्षणादिषु संस्कारः पुरुषस्यैव धर्म इति नैयायिका
आहुः ( कु० ) । प्रोक्षिता एव श्रीहयः पुरोडाशाय कल्पन्ते नाप्रोक्षिताः
इति प्रोक्षणादिजन्यसंस्कारो यज्ञाङ्गत्रीहिषु इति स द्रव्यधर्म एव इति
मीमांसका मन्यन्ते । एवम् स्नानाचमनादिजन्याः संस्कारा देह उत्पद्य-
माना अपि तदभिमानिजीवे कल्प्यन्ते इति वेदान्तिन आहुः (वाच० ) ।
३ काव्यप्रकाशकृन्मम्मटभट्टस्तु शास्त्राभ्यासजन्यव्युत्पत्तिः इत्याह ।
४ वैयाकरणास्तु व्याकरणोक्त दिशा शब्दानां साधनप्रकार इत्यादुः ।
५ कर्मज्ञास्तु विप्रादीनां वैदिककर्मार्हत्वप्रयोजको गर्भाधानादिक्रिया-
कलापः संस्कार इत्याहुः । ते चेदानींतनानां संस्कारा दशविधा एव
विशिष्यन्ते । गर्भाधानम् पुंसवनम् सीमन्तोन्नयनम् जातकर्म नामकरणम्
निष्क्रमणम् अन्नप्राशनम् चूडाकर्म उपनयनम् विवाहश्च इति । अन्ते
रखौछ्दैहिकसंस्कारोप्येकादशो विज्ञेयः । एवम् विप्रादीनां देहसंस्कारा-
भ्रष्टाचत्वारिंशद्वन्थान्तरेषु ज्ञेयाः । एवम् मत्राणां सिद्धिदानाय दश-
विधाः संस्कारास्तन्नादौ द्रष्टव्याः ( सर्व० सं० पृ० ३६९ पात० ) ।