2023-02-20 00:57:20 by ambuda-bot
This page has not been fully proofread.
९३८
न्यायकोशः ।
ॐ तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम् ॐ
( ब्रह्मसू० ३।१।१ ) इत्यादिनोक्तो द्रष्टव्यः । [ ६ ] मध्वाचार्यास्तु
भूतबन्धः संसार इत्याहुः । तदुक्तं वाराहे भूतबन्धस्तु संसारो मुक्तिस्तेभ्यो
विमोचनम् ( मध्यभा० ३ । १ । १ ) इति । [ ङ ] सांख्यास्तु सूक्ष्म (लिङ्ग)
शरीरं पूर्वपूर्वस्थूलशरीरत्यागपूर्वक मभिनवस्थूल शरीरं यदुपादचे स संसार
इत्याहुः । तदुक्तम् संसरति निरुपभोगं भावैरधिवासितं लिङ्गम् (सांख्य-
का० ४० ) इति । [च ] आत्मानं देहेनैकीकृत्य स्वर्गनरकमार्गयोः
सरति येन पुरुषः स संसारः ( सर्व० सं० पृ० ४०२ शां० ) ।
समित्येकीकरणे । [छ ] संसारो नामाज्ञानम् । २ विश्वम् ।
३ संगतिः ( वाच० ) ।
संसारी-[क] भवाद्भवान्तरप्राप्तिमन्तः संसारिण: ( सर्व० सं० पृ० ७०
आई०
० ) । [ ख ] एष प्रमाता मायान्धः संसारी कर्मबन्धनः ( सर्व ०
० पृ० १९९ प्रत्य० ) ।
सं०
संसृष्टि:– १ संसर्गः ( संबन्ध: ) ( राम० २ पृ० १६४ ) । यथा
पक्षे साध्यसंसृष्टत्वज्ञानम् ( मुक्ता ० २ पृ० १६) ईत्यादी संसृष्टि-
शब्दस्यार्थः । २ अलंकारविशेषः । एकार्थसमवायस्वभावा संसृष्टि:
इत्यालंकारिका आहुः । तदुक्तं काव्यप्रकाशे सेष्टा संसृष्टिरेतेषां भेदेन
यदिह स्थितिः ( काव्यप्र० १०।१३९ ) इति । ३ व्यवहारशास्त्रज्ञास्तु
विभागानन्तरं मैत्र्यात् पुनः स्वस्वधनेषु भ्रात्रादीनां कृतः संसर्गः ।
विभक्तधनस्य मिश्रीकरणमिति यावत् । यथा संसृष्टिनस्तु संसृष्टी सोदरस्य
तु सोदरः ( याज्ञव० २।१४३ ) इत्यादौ संसृष्टिशब्दस्यार्थ इत्याहुः ।
अत्रोक्तं बृहस्पतिना विभक्तो यः पुनः पित्रा भात्रा बैकत्र संस्थितः ।
पितृव्येणाथ वै प्रीत्या स तु संसृष्ट उच्यते ॥ ( याज्ञ० २/१४३
मिताक्षरा) इति । ४ वमनादिना संशुद्धिः इति भिषज आहुः (वाच० ) ।
संस्कारः – १ ( गुण ) [ ] संस्कारत्यजातिमान् ( त० दी० )
( प्र० प्र० ) ( त० कौ० ) । संस्कारः अनित्यः ( वाक्य० गु०
पृ० २२ ) । स च त्रिविधः वेगः भावना स्थितिस्थापक श्चेति । [ ख ]