This page has not been fully proofread.

न्यायकोचः ।
 
४७
 
मते तु राजपुरुषः इत्यादौ लुप्तषष्ठयादिविभक्तया स्मृतया प्रतिपाद्येनैव
स्वस्वामिभावसंबन्धेन ( न तु साक्षात् ) राजपदार्थस्य पुरुषादावन्वयः
स्वीकृत इति ( मु० ४ पृ० १८२ ) । उक्तव्युत्पत्तावव्ययनिपाताति-
रिक्तेतिपदप्रयोजनमुच्यते । घटो न पटः इत्यादौ घटपटाम्यां नञः साक्षा-
देवान्वयात् निपातातिरिक्त इति पदं दत्तम् । चन्द्र इव मुखम् इत्यादौ
इवार्थसादृश्ये चन्द्रस्य प्रतियोगितया मेदेनान्वयात् अव्ययातिरिक्त इति
च पदं दत्तम् । नीलो घटः इत्यादौ नामार्थयोः स्तोकं पचति इत्यादौ
क्रियाप्रातिपदिकार्थयोखामेदेनान्वयात् मेदेन इत्युक्तम् । भूतले
घटः इत्यादौ आधेयतासंसर्गेणापि घटभूतलयोरन्वयात् साक्षात् इति
पदम् । प्रत्ययार्थमद्वारीकृत्य इति साक्षात् इत्यस्यार्थ: (मु० ४
१८२ ) ( दि० ) । मेदेन इत्यस्य तु तादात्म्यातिरिक्तेन इत्यर्थो
बोभ्यः । राजा पुरुषः इत्यादौ स्वत्वरूपमेदसंबन्धेन राजपदार्थस्य
पुरुषादाबन्धयमादाय राजसंबन्धी पुरुषः इति बोधवारणायास्या व्युत्पत्ते-
कर्मतानिरूपकत्वसंबन्धेनापि ( मेदसंबन्धेन )
पाक:
 
पृ०
 
रावश्यकत्वम् ।
 
तण्डुलादिपदार्थस्य पचनक्रियायामन्वयमादाय तण्डुलकर्मकः
इत्याकारकबोधमादाय तण्डुलः पचति इति प्रयोगवारणाय चेयं व्युत्प
त्तिरवश्यं स्वीकार्या इति (मु० ११४ पृ० १८२ ) ( ग० अवय०
हेतु० )। अत्रेदमवधेयम्-पचिक्रियायां तण्डुलादि कर्मकत्वप्रकारकशाब्द-
बुद्धित्वावच्छिन्नं प्रति द्वितीयान्ततण्डुलपदसममिव्याहृतपचतिपदसममि-
व्याहाररूपाका हाज्ञानं कारणम् इत्यावश्यक कार्यकारणभावेनैव तण्डुलः
पचति इत्यादिप्रयोगवारणोपपत्तावलमेतादृश्या व्युत्पत्त्येति (ग० अवय ०
हेतुप्र० ) ( ग० व्यु० कार० २) ।
 
अन्वयव्यतिरेकि-(लिङ्गम् ) [ क ] गृहीतान्वयव्यतिरेकिसाभ्यकम् ( दी-
वि० २११५६ ) । अन्वयव्यतिरेकि तु पञ्च रूपोपपन्नं भवति । पञ्च
रूपाणि च पक्षधर्मत्वम् सपक्षे सस्वम् बिपक्षाद्वयावृत्तिः अबाधितवि-
षयत्वम् असत्प्रतिपक्षत्वं चेति ( सि० च० २१२६ ) ( त० कौ०
२।१२) । एतानि पच रूपाणि च वहिसाध्यकघूमादाषन्वयम्यतिरेकिण्येष