This page has not been fully proofread.

न्यायकोशः ।
 
पृ० ३८५ ) । [ग] अधिकरणे प्रतियोग्यारोपहेतुकनिषेधधीविषयः
जमावः । संसर्गाभावस्त्रिविधः प्रागभावः ध्वंस: अत्यन्ताभावश्चेति
( मा० १० लो० १२-१३) । केचित्तु उत्पादविनाशशाली सामयिक -
नामा चतुर्थोयमभाव इत्याहु: (मु० १ पृ०४३) (बै० वि० ९/१/५ ) ।
अयं भावः । यत्र भूतले पूर्वमपसारितं घटादिकं पुनरानीतं च तत्रायम-
मावः इति । नैयायिकास्तु तत्र घटकालस्यामावसंबन्धाघटकत्वात् घट-
सवकाले न घटात्यन्ताभावबुद्धिः । तथा च तत्रात्यन्ताभाव एव प्रती-
यते । कालविशेषविशिष्टस्वरूपस्य ( घटानधिकरणकालीन
स्वरूपस्य )
संसर्गस्योपगमादेव घटवति घटो नास्ति इति प्रतीत्यभावोपपत्तौ चतुर्थ-
संसर्गाभावे मानाभाव: ( दि० पृ० ४३ ) इति वदन्ति ।
 
संसर्पः --अंहस्पतिशब्दे दृश्यम् ।
 
संसार:- १ [ क ] दुःखादीनां कार्यकारणभावः । स चानादिः ।
पूर्वापरकालानियमात् । दुःखादयो मिथ्याज्ञानपर्यवसाना अविच्छेदेन
वर्तमानाः संसार: ( न्या० वा० १ पृ० २६ ) इति । मिथ्याज्ञानादयो
दुःखान्ता अविच्छेदेन वर्तमाना: संसारशब्दार्थः ( सर्व० पृ० २४६
अक्ष० ) । अयं भावः । धाता यथापूर्वमकल्पयत् इति वेदे खण्ड-
प्रलयस्य प्रसिद्धत्वेन संसारस्य प्रवाहानादित्वं प्रकल्पनीयम् ( त ०
प्र० ४ पृ० १८ ) इति । [ ख ] जन्ममरणप्रबन्ध: प्रेत्यभावापर-
नामा ( बै० उ० ६।२।१५) । यथा संसारसागर निमग्नमनन्तदीन-
मुर्तुमर्हसि हरे पुरुषोत्तमोसि इत्यादौ संसारशब्दस्यार्थः । जन्ममरण-
प्रषाहः प्रेत्यभावः । स एव पुंसां बन्धलक्षणः । तस्य च अजरंजरी-
भाषः इति नामान्तरमागमे (३० वि० ६।२।१५) । संसारित्वं च
क्रमेण दुःखोत्पादः ( न्या० ली० गु० मोक्षनि० १० ४२ ) । यथा
शरीराभिमानिनो जीवस्य संसारित्वम् । सांसारिकं सुखं तु धर्मारब्ध-
देहाबच्छेद्यं सुखम् ( प० च० ) । [ग] वल्लभीया मायाबादिनो
वेदान्तिनच मिथ्याज्ञानजन्यसंस्काररूपवासना देहारम्भकादृष्टविशेषो वा
साइटोपनिषद्धदेहपरिग्रह वा संसार इत्याहुः । अत्र संसारगतिप्रकारस्तु
११८ न्या० को●