This page has not been fully proofread.

न्यायकोशः ।
 

 
संसर्गाभावत्वं च संसर्गारोपजन्यप्रतीतिविषयाभावत्वमेव अखण्डोपाधि
वेत्याहुः ( त० प्र० ४ १० ५७ ) । संसर्गाभावग्रहे प्रतियोगि-
योग्यतैव तनम् । यत्त संसर्गाभावग्रहे प्रतियोग्यधिकरणोमययोग्यत्वं
तन्त्रम् इति कैश्चिदुक्तम् । तन्न समीचीनम् । आकाशे रूपात्यन्ताभाष
प्रत्यक्षस्य निवृत्तः कोलाहल: इति ध्वंसप्रत्यक्षस्य चानुपपत्या तड़हे
अधिकरणयोग्यतापेक्षा नास्ति ( सर्व० पृ० २३१ औलू० )
(वै० उ० ९/११८) (३० वि० ९/११८ पृ० ३८१) । अत एव
त्वक्संयुक्तकालविशेषणतया वायुस्पर्शनाशप्रत्यक्षं पक्षधर मिश्रैः स्वीकृतम् ।
[ ख ] अन्योन्याभावभिन्नः अभावः ( त० प्र० ) (मु० १ पृ० ४२ ) ।
यथा नास्ति घटो गेहे इति सतो घटस्य गेहसंसर्गप्रतिषेधः ( वै०
९/१।१० ) इति सूत्रे प्रतिपाद्यः अभावः । ध्वंसप्रागभावयोः किंचि
संबन्धावच्छिन्नप्रतियोगिताकत्वानङ्गीकारे तु इदं लक्षणान्तरम् इति
विज्ञेयम् । लक्षणस्यायमर्थः । गेहे घटस्य यः संसर्गः संयोगस्तस्य
प्रतिषेधः । स च यदि कदाचिदपि न घटस्तदात्यन्ताभाव एव भविष्यतः
प्रागभावः भूतस्य प्रध्वंसाभावः इति वैशेषिका आडु: (वै० उ०
९।१।१० ) । अथ वा सतः पूर्व तत्र वर्तमानस्य घटस्यैव गेहसंसर्ग-
प्रतिषेधः गेहे संसर्गाभावः । तद्विशेषोत्यन्ताभावः नास्ति गेहे घटः इति
प्रत्यक्षविषयः इति समुदितसूत्रार्थः इति नैयायिका : (०नि०
 
९/१/१० ५० ३८४ ) । अत्रेदं बोध्यम् । संसर्गाभावश्च नआदि-
निपातेन धातुना च बोष्यते । तत्र निपातेन प्रातिपदिकार्थाभावस्य
बोषने अनुयोगिनि सप्तम्यपेक्षा । यथा गेहे घटो नास्ति इत्यादौ ।
विभक्त्यर्थसंसर्गाभावस्य धात्वर्थादौ बोधने तु नायं नियमः । यथा
गगनं न पश्यति न कलशं भक्षयेत् इत्यादौ । तत्र दर्शने गगनकर्म-
त्वस्य कलशभक्षणे च बलवदनिष्टासाधनत्वस्य नजा संसर्गाभावस्य
बोधनात् न तत्र सप्तम्यपेक्षा इति । प्रातिपदिकार्थस्यात्यन्ताभाषबोध-
स्थलेनुयोगिनि सप्तम्यपेक्षा । कचित् नञर्थस्य सुबर्थाभावस्य अस्ति
क्रियाविशेष्यतावच्छेदकतया मानम् । यथा नास्ति गेहे घटः इत्यादौ
'घटस्य गृहवृत्तित्वाभावो बोभ्यते इस्याड (वै० ० ९/१/१०