This page has not been fully proofread.

न्यायकोशः ।
 
९३५
 
न संसर्ग व्रजेत्सद्भिः
 
प्रायश्चित्तेऽकृते द्विजः ॥ ( मनु० ० ११
हो०
१० ४७ ) इति । विष्णुः यश्च येन पापात्मना सह संसृज्येत स
सस्यैव प्रायश्चित्तं कुर्यात् इति । एवं गौतमोपि । के ते संसर्गप्रकारा
इत्याहतुर्मनुबृहस्पती एकशय्यासनं पर्भाण्डपकानमिश्रणम्। बाजना-
ध्यापनं योनिस्तथा च सहभोजनम् ॥ नवधा संकरः प्रोको न कर्तव्यो-
धमैः सह ( मनु० अ० ११ को० १८० ) इति । कूर्मपुराणे व्यासः
महापातकिमस्वेते यश्च तैः सह संवसेत् । संवत्सरं तु पतितैः संसर्ग
कुरुते तु यः ॥ यानशय्यासनैर्नित्यं जानन्यै पतितो भवेत् इति । अत्रेदं
बोध्यम् । महापात किसंसर्गस्यैष कलौ पापहेतुस्त्रम् मान्यपाषिसंसर्गस्य ।
यथोक्तं पराशरेण कृते संभाषणारपापं त्रेतायां चैव स्पर्शनात् । द्वापरे
चानमादाय कलौ पतति कर्मणा ॥ इति । अत्र सर्वस्मृतिशाखाकलना-
द्वयं भूमः । कलावपि महापातकिसंसर्गस्येवान्यपापिसंसर्गस्यापि पाप-
हेतुत्वमस्त्येव । परंतु तत्पापं त्वल्पमेव । तन्निर्णेजनाय तदमुगुणं प्राय-
वितं कार्यमेव इति ।
संसर्गमर्यादा -[क]
 
सममिव्याहारज्ञानकार्यतावच्छेदककोटिप्रविष्टसंब-
ब्धता ( कृष्णं ० ) । यथा शाब्दबोधे चैकपदार्थे अपरपदार्थस्य संसर्गः
संसर्गमर्यादया भासते ( ग० न्यु० का० १) इत्यादी संसर्गमर्यादा-
शब्दस्यार्थः । [ ख ] आकाङ्क्षादिसहकारिसहकृता पदशक्तिः इति
वैयाकरणादयः आहुः ( काव्यप्र० कमला० उल्ला० २) ।
संसर्गाभावः–( अभावः ) [ क ] तादात्म्यातिरिक्तसंसर्गारोपजन्यप्रतीति-
विषयाभावः ( त० प्र० स० ४ पृ० ५६ ) । अत्रार्थे संसर्गाभाव-
पदस्य ब्युत्पत्तिः संसर्गेण तादात्म्यातिरिक्तेन संबन्धेन अवच्छिन्न प्रतियो-
गिताकः अभावः इति । मध्यमपदलोपी समासः शाकपार्थिववज्ज्ञातव्यः ।
अयं भाषः । ध्वंसप्रागभावयोरपि किंचित्संबन्धावच्छिन्न प्रतियोगिताकत्व-
मस्ति इत्यभिप्रायेणेवं व्युत्पत्तिः । संसर्गाभावस्य लक्षणं च तादात्म्य-
संबन्धानवच्छिन्न प्रतियोगिताकाभावत्वम् ( ग० २ सिद्धान्त० ) ।
अथवा अन्योन्याभावभिनाभावत्वम् (मु० १ ४० ४२ ) 4 अन्ये तु
 
-