This page has not been fully proofread.

यो ।
 
1
 
संशयः ( कात्या ●
 
घटेनानित्येन । अतो नित्यानित्यसाधर्म्यादनिवृत्तः
१५/१/१४ ) इति । अत्र नित्यानित्यसाधर्म्यात् इति पदं संशय-
कारणोषलक्षणम् । हेतुबाने अप्रामाण्यशङ्काधानद्वारा साभ्यसंशयात्
सत्प्रतिपक्ष देशभामासोयम् ( गौ० १० ५/१/१४ ) । [ ख ] यत्र
समानो धर्मः संशयकारणं हेतुत्वेनोपादीयते स संशयसमः सबमिचार
एव (वाल्या० ११२।७) । [ग] समानधर्मदर्शनादियत्किचित्संशय-
कारणबलात्संशयेन प्रत्यवस्थानम् । यथा शब्दः अनित्यः कार्यत्वाइट-
मदिरयुक्ते सामान्ये गोत्यादौ दृष्टान्ते घटे चैन्द्रियकत्वं तुल्यम् । यथा
कार्यत्वा निर्णायकादनित्यत्वं निर्णीयते तथैन्द्रियकत्वात्संशयकारणाद-
नित्यत्वं संबिद्यताम् ( गौ० वृ० ५/१/१४) । तथा चोकम् संदेह-
हेतुसद्भावात्सति निर्णयकारणे । संशयस्य प्रसङ्गो यः स संशयसमो
मत्तः ॥ ( ता.० २० प० २ को० ११६ ) इति । [ष ] साधारण-
धर्म प्रदर्श्य संशयोद्भाबनम् । यथा शब्दः अनित्यः कार्यत्वादित्यादौ
शब्दस्यानित्येन घटेन सह कार्यत्वरूपं साधर्म्ये यथा अस्ति तथा नित्येन
शब्दत्वेन सह श्रावणप्रत्यक्षविषयत्वं साधर्म्यमस्ति इत्युभयसाधर्म्यदर्शना-
त्संशयः स्यात् । एकपरिशेषे नियामकाभावात् (नील० पृ० ४४ ) इति ।
संसर्ग:-१ [ क ] संबन्धः । यथा पक्षे साध्यसंसृष्टत्वज्ञान मनुमितिकारणम्
(मु० २ ) इत्यादौ । [ख] संसर्गताख्य विषयताषान् । यथा शाब्दबोधे
चैकपदार्थे अपरपदार्थस्य संसर्गः संसर्गमर्यादया भासते (ग० न्यु० १ )
इत्यादी घटवद्भुतळम् इति शाब्दबोधीयः संयोगायः संसर्गः । २ व्यव
हारशाम्रज्ञास्तु विभागानन्तरं यत्तव मम च धनं तदावयोः इति कृतसमये-
नैकत्रावस्थानरूपो धनसंबन्ध: (संसृष्टि: ) संसर्गः इत्याहुः । ३ धर्मशास्तु
पातकिसंबन्ध इत्याहुः । पातकिसंसर्गस्य पापहेतुत्वमाह मनुः ब्रह्म-
इत्या सुरापानं स्तेयं गुर्वनागमः । महान्ति पातकान्याहुः संसर्गश्चापि
तैः सह ॥ ( मनु० अ० ११ को० ५४ ) यो येन पतितेनैषां संसर्ग
याति मानवः । स तस्यैव व्रतं कुर्यासत्संसर्गविशुद्धये ॥ ( मनु०
अ० ११ श्रो० १८१ ) । प्रायश्चित्तीयतां प्राप्य
वा ।