This page has not been fully proofread.

न्यायकोशः ।
 
स्वनिष्ठत्वनिवेशनेन अवच्छेदकावच्छेदेनानुमितौ पक्षतावच्छेदकसामाना-
धिकरण्यमात्रेण कोटिद्वयावगा हिनिश्चयस्य अवच्छेदकावच्छेदेन साध्या-
दिमत्तानिश्चयप्रतिबध्यत्वेपि पक्षतात्ववारणम् इति । शुद्धवदित्वावच्छिन्न-
साध्यकस्थले पर्वतो वह्निमान् इत्यादौ वह्नयभाववान् पर्वतः इत्येतादृश-
बाधप्रतिबध्यस्य महानसीयवह्निमान्न वा पक्षः इत्येतादृशस्य संशयस्य
पक्षतात्ववारणाय साध्यवत्तानिश्चयप्रतिबध्यतावच्छेदकावच्छिन्नत्वं प्रति-
बभ्यतायां निवेशनीयम् (ग० पक्ष० पृ० ४ ) । पक्षता चेयं पूर्व-
पक्षीया आचार्यमतसिद्धा च इति बोध्यम् ( वाच ० ) । [ ख ] अथवा
स्वघटितधर्मावच्छिन्न प्रतिबन्धकतानिरूपितप्रतिबध्यतावच्छेदकीभूता या
स्वनिरूपकताबच्छेदकधर्मावच्छिन्न निरूपित विरोध विषयतानिरूपित विष-
यतानिरूपिता प्रकारिता सामानाधिकरण्यसंबन्धेन तद्विशिष्टप्रकारि-
तावज्ज्ञानम् । एतलक्षणस्यावतरणिका चेत्थमुक्ता । व्याप्यवृत्तित्वविशिष्ट-
कोटिद्वयावगाहिज्ञानं संशयः इति मते संशये समुच्चयव्यावृत्तविषयितां
प्रदर्श्य एकधर्मिकनाना विरुद्धकोट्यवगाहिज्ञानं संशयः इति मते संशयत्वं
निर्वक्ति अथवा इत्यादिना ग्रन्थेन इति । अत्र स्वपदेन संशयविषयैक को-
टिनिरूपिता प्रकारिता ग्राह्या । [ग] केचित्तु साध्यनिश्चयसाध्याभाव-
निश्चयप्रतिबध्यतावच्छेदक विशेष्यताशालिज्ञानं संशयः इत्याहुः । अयं
भावः । संशये च धर्मिणि उभयप्रकारता निरूपि तैक विलक्षण विषयता
समुञ्चयवैलक्षण्यायोपगम्यते इति तादृश विषयताया विभिन्नरूपेणोभय-
निश्चय प्रतिबध्यतावच्छेदकतया नासंभवः ( ग० पक्ष० पृ० ४) इति ।
एतच्चिन्त्यम् । चिन्ताबीजं तु वह्नित्ववहभभावत्वोभय पुरस्कारेण बह-
भावावगाहिनि पर्वतो वह्यात्मकवहयभाववान् इति समुच्चयेतिव्याप्तिः
इति । शिष्टं तु पक्षताशब्दव्याख्याने दृश्यम् ।
 
९३३
 
संशयसमः – ( जातिः ) [ क ] सामान्यदृष्टान्तयोरैन्द्रियकत्वे समाने
नित्यानित्यसाधर्म्यासंशयसमः ( गौ० ५।१।१४ ) । अनित्यः शब्दः
प्रयत्नानन्तरीयकत्वाद्धटवदित्युक्ते हेतौ संशयेन प्रत्यवतिष्ठते सति प्रयत्मा-
नन्तरीयकत्वेस्त्येवास्य नित्येन सामान्येन साधर्म्य मैन्द्रियकत्वम् अस्ति च