This page has not been fully proofread.

९३२
 
न्यायकोशः ।
 
यथा अरण्ये झाटाघन्तरिते गोगवयादिपिण्डे विषाणमात्रदर्शनात् अयं
गौर्गवयो वा इति ( वै० उ० २१२/१८ ) । अत्र भाष्यम् अप्रत्यक्ष-
विषये तावत् साधारणलिङ्गदर्शनात् उभयविशेषानुस्मरणात् अधर्माच
संशयो भवति । यथा अटव्यां विषाणमात्रदर्शनात् गौर्गवयो वा
( प्रशस्त० गुणनि० पृ० ४९) इति । वस्तुतः तत्रापि विषाणधर्मिक एव
संदेह: विषाणमिदं गोसंबन्धि गवयसंबन्धि वा इति । विवक्षामात्रात्तु
द्वैविध्याभिधानम् (वै० उ० २१२/१८) । आन्तरसंशयो हि विद्या-
विद्याभ्यां भवति । यथा मौहूर्तिकः सम्यगादिशति चन्द्रोपरागादि
असम्यगपि । तत्र स्वज्ञाने सम्यगादिष्टमुपरागादि असम्यग्वा इति संशयो
जायते (वै० २।२।२० ) ( त० व० परि० १२ पृ० २१६) ।
अत्र भाष्यम् अन्तस्तावत् आदेशिकस्य सम्यक् मिथ्या चादिश्य
पुनरादिशतस्त्रिषु कालेषु संशयो भवति किं नु सम्यक् मिथ्या वा
( प्रशस्त० गुणनि० पृ० ३९ ) इति । २ (पक्षता ) [ क ] बाधप्रति-
बध्यतावच्छेद की भूतस्व निष्ठविषयिता घटितधर्मावच्छिन्न प्रतिबन्धकता निरू
पिता या साध्यवतानिश्चयत्वव्यापक प्रतिबन्ध कता निरूपित प्रतिबध्यताव-
च्छेदकावच्छिन्ना प्रतिबध्यता तच्छालिज्ञानम् । यथा पर्वते घूमेन बह्नि-
साधने पर्वतो वह्निमान वा इति संशयः पक्षता । बाधप्रतिबध्यतेत्यादेः
सुगमार्थस्तु बाधस्य प्रतिबध्या या संशयीयैका कोटिः तस्याः प्रतिबध्या या
साध्यस्य प्रतिबध्या च संशयीया अपरकोटि: तद्विषयकं ज्ञानम् इति ।
वह्निमान् घूमादित्यादौ बाधस्य वह्नयभावस्य प्रतिबध्या कोटिः बहिः
तस्य प्रतिबध्या साध्यस्य वह्नेः प्रतिबध्या चापरकोटि: वहयभावः तद्वि-
षयकं पर्वतो वह्निमान्न वा इति ज्ञानम् इति लक्षणसमन्वयः । अत्रेदं
बोध्यम् । स्वनिष्ठविषयितायां च बाधप्रतिबध्यतावच्छेदकत्वमाबश्यकम् ।
तेन वहिव्याप्यसाध्यकस्थले पर्वतो वहिव्याप्यवान् इत्यादौ वह्निमान् न
वा पक्षः इत्येतादृशसंशयव्युदासः । तत्र वह्निव्याप्याभावाभावत्वेन बह्नि-
व्याप्यस्य पृथग्भानेपि संशयस्वघटकीभूतस्वनिष्ठवह्निमःपक्षविषयितायां
वहिव्याप्याभावनिश्चयप्रतिबध्यतावच्छेदकत्व विरहात् इति । विषयितायां
१ अविद्येति पदच्छेदः ।
 
#