This page has not been fully proofread.

न्यायकोश ।
 
चाकाशविशेषगुणत्ममसाधारणधर्ममुपलभमानस्य निर्णायकमजानतः
संशयो भवति किं शब्दो निलो न वा इति । ( ३ ) इन्द्रिये वैशेषिक-
सांख्ययोर्मोतिकत्वाभौतिकवरूपां विप्रतिपतिं पश्यतो निश्चायकं चापश्यतः
संशषो भवति किमिन्द्रियाणि भौतिकानि उताभौतिकानि इति । (१)
कूपखननानन्तरं जलोपलब्धौ सत्यां निर्णायकामावे संज्ञयो मषति किं
आक् सदेबोदकं कूपखननेनाभिव्यक्तमुपलभ्यते उतासदेवोत्पनम् इति ।
( ५ ) अस्मिन् वटे पिशाचोस्ति इति वार्तो श्रुतवतो बढसमीपं गतस्य
पुरुषस पिशाचानुपलब्धौ निर्णायकाभाने संशयो भवति किं विद्यमान
एवं पिशाचोन्तर्धामशक्तया नोपलम्यते उताविद्यमान एष इति । अत्र उ
समुन्योः साधारणधर्म एवान्तर्मावः । तथा च त्रीप्येव कारणानि
इति न्यायवार्तिककृत आहुः । असाधारणविप्रतिपस्योरपि साधारणधर्म
एवान्तर्मावः । अतः साधारणधर्मेणैव सर्वत्र संशयः इति वैशेषिका भाडु:
( प्र० प० पृ० ३-४ ) ( त० ब० परि० १२ पृ० २१४-२१५ ) ।
[ख] धर्मिताबच्छेदकाबच्छेदेनान्यतरकोब्यवगाहि ज्ञानम् ( स०प्र० ) ।
[ग] विरुद्धोभयारोपसामग्रीद्वयसमाजादुभयारोप एक एव भवति सः
(चि० १ ) । धर्मिज्ञानसहितविरुद्धोभयविशिष्टबुद्धि सामग्रीसमाजादेवो-
भवविषयकारोप एको भवति स एव संशयः इति समुदितार्थः
( मू० म० १ ) 1 [व] एकधर्मिकविरुद्धभाषाभाषप्रकार कज्ञानम्
( गौ० दृ० ११ १/२३ ) ( मु० गु० ) । [ ] एकस्मिन्धर्मिणि
बिरुद्धमानाघर्मवैशिष्टयज्ञानम् । यथा पर्वतो वह्निमान् न वा इति
ज्ञानं संशयः । समुदितार्थश्च एकधर्मावच्छिन्नविशेष्यकभावाभावप्रकार-
कज्ञानम् ( न्या० बा० ) । अथ बा यत्किंचिद्धर्मिनिष्ठविशेष्यतानि-
रूपितविरुद्धयानाधर्मनिष्ठप्रकारतानिरूपितप्रकारिताशालिज्ञानम् ( वा-
क्य० ) ( उ०म० ) इति । [च ] प्रसिद्धानेकविशेषयोः ( स्माणु-
पुरुषयोः) सादृश्यमात्रदर्शनात् उभयविशेषानुस्मरणात् अधर्माण किंखित्
इत्युभयाबलम्बी विमर्श: संशयः ( प्रशस्त० गुणनि० पृ० ३९) ।
यथा दूरवर्तिनि उचैस्तरे अयं स्थाणुर्वा पुरुषो वा इति ज्ञानम्
( त० सं० ) ( बै० उ० २१२/१७ ) ( त० कौ० ) । अयं संशया-