This page has not been fully proofread.

न्यायकोशः ।
 
९२९
 
कचिदनुपलभ्यमाने संशयः । किं सन्नोपलम्यत उतासत् इति संशयो
भवति । विशेषापेक्षा पूर्ववत् । पूर्वः समानोनेकञ्च धर्मो ज्ञेयस्थ: ।
उपलब्भ्यनुपलब्धी पुनर्ज्ञातृस्थे । एतावता विशेषेण पुनर्वचनम् । समान-
धर्माधिगमात् समानधर्मोपपत्तर्विशेषस्मृत्यपेक्षो विमर्श इति । स्थानवतां
लक्षणवचनमिति समानम् ( बाल्या० १/१ । २३ ) । वार्तिककृतस्तु
समानो हि धर्मः यो विवक्षिततज्जातीयवृत्तित्वे सति अन्यजातीयवृत्तिः
सः । अयं साधारणो धर्म उपलभ्यमानः संशयहेतु: ( न्या० वा० ११२३
पृ० ९३) इत्याहुः । अत्रायं विशेषः । समानधर्मवत्तया धर्मिज्ञान-
स्यान्वयव्यतिरेकाम्यां संशयहेतुत्वमवधार्यते ( न्या० म० ४ पृ० ३४ ) ।
तदर्थश्च तत्कोटिसाधारणधर्मवत्तया धर्मिज्ञानस्य तत्कोटिसंशयहेतुबम-
वधार्यते । अन्वयव्यतिरेकेति तुरगादौ वेगेन गच्छतोने कवृक्षेन्द्रिय-
संनिकर्षेपि यस्यैव धर्मिणो ज्ञानं तत्रैव पनसत्वादिसंशयः नान्यत्र इति
धर्मिनियमार्थम् । धर्मिज्ञानस्योत्कटकोटिकसंशयहेतुत्वमिति भावः ( त०
प्र० ख० ४ पृ० १३०-१३१) । अनेकप्रत्ययहेतुधर्मोनेकधर्मः । यत
एव प्रत्ययो भवति इदमेकमनेकम् इति । तत्रैकप्रत्ययहेतुरभेदः । अनेक-
प्रत्ययहेतुधर्मो विशेषः । यथा शब्दस्य विभागजस्वम् । सामान्य विशेष-
समवायेभ्यः शब्दस्य सदादिना विशेषेण निर्मक्तस्य तस्मिंस्तु द्रव्यं गुणः
कर्म वा इति विभागजस्वात्संशय इत्याहुः (न्या० वा० १।२३ पृ०९५ ) ।
विप्रतिपत्तिजन्यसंशयस्योदाहरणान्तरं यथा एको ब्रूते शब्दो नित्यः इति ।
अपरः अनित्यः इति । तयोर्विप्रतिपस्या मध्यस्थस्य पुंसो विशेषमपश्यतो
भवति संशयः किमयं शब्द: अनित्य उत नित्यः इति ( त० मा०
पृ० ४२ ) । संशयस्य निर्णायकाभावसहकृताः साधारणधर्मासाधारण-
धर्मविप्रतिपत्त्युपलब्भ्यनुपलब्धयः पञ्च कारणानि इति न्यायभाष्य-
कृतो वात्स्यायनाः पक्षिलस्वामिनः आदु: ( त० व० परि० १०) ।
तथधा (१) स्थाणुपुरुषयोः साधारणधर्ममूर्ध्वतादिलक्षणं पुरोषर्सिन्यु-
पलभ्य स्थाणुपुरुषौ स्मृत्वा विशेषजिज्ञासायां स्थाणुत्वनिधायकं वक
कोटरादिकं पुरुषत्वनिश्वायकं शिरः पाण्यादिकं चानुपलभमानस्य दोलाय-
मानं संशयज्ञानमुत्पद्यते किमयं स्थाणुर्वा पुरुषो वा इति । ( २ ) शब्दे
११७ न्या० को ०