This page has not been fully proofread.

न्यायकोशः ।
 
प्रकारतानिरूपिता विशेष्यता एकैष । समुचये तु विशेष्यताद्वयम् इति
संशयसमुच्चययोर्भेद इति च विज्ञेयम् । यद्वा अवच्छेद्यावच्छेदकभावा-
पन्नविषयतावत्त्वम् ( ग० सत्प्र० ) । संशयीय विशेष्यतयोरवच्छेद्या-
वच्छेदकभावस्तु समुच्चयज्ञानव्या
वर्तनायावश्यं स्वीकर्तव्य इति सूक्ष्मदर्शि-
मिर्विज्ञेयम् । अत्र संशयलक्षणं च सूत्रकारैरुक्तम् समानानेकधर्मोपपत्ते-
विप्रतिपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातच विशेषापेक्षो विमर्शः संशयः
(गौ० १११ (२३) (ता० २० श्लो० ५६) । तत्र ( १ ) समानधर्मोपपत्ते-
विशेषापेक्षो विमर्श: संशयः इति । स्थाणुपुरुषयोः समानं धर्ममारोह-
परिणाहौ पश्यन् पूर्वदृष्टं च तयोर्विशेषं बुभुत्समानः किंस्वित् इत्यन्यतर-
भावधारयति । तदनवधारणं ज्ञानं ( विमर्श: ) संशयः । वस्तुस्वरूपा-
नवधारणात्मकः प्रत्यय इत्यर्थः ( न्या० वा० १ पृ० १३) । समान-
मनयोर्धर्ममुपलभे विशेषमन्यतरस्य नोपलभे इत्येषा बुद्धिरपेक्षा संशयस्य
प्रवर्तिका वर्तते । तेन विशेषापेक्षो विमर्शः संशय: । (२) अनेकवर्मो-
पपत्तेरिति । समानजातीयमसमानजातीयं चानेकम् । तस्यानेकस्य धर्मो-
पपत्तेर्विशेषत्योभयथा दृष्टत्वात् । समानजाती ये म्योसमान जातीयेभ्यश्चार्या
विशिष्यन्ते । गन्धवत्त्वात्पृथिव्यबादिम्यो विशिष्यते गुणकर्मभ्यश्च ।
अस्ति च शब्दे विभागजत्वं विशेषः । तस्मिन् द्रव्यं गुणः कर्म वा इति
संदेहः । विशेषस्योभयथा दृष्टत्वात् किं द्रष्यस्य सतो गुणकर्मभ्यो
विशेष: आहोस्विद्गुणस्य सत इति अथ कर्मणः सत इति विशेषापेक्षा
अन्यतमस्य व्यवस्थापकं धर्मे नोपलभे इति बुद्धिरिति । (३) विप्रति-
पत्तेरिति । व्याइतमेकार्थदर्शनं विप्रतिपत्तिः । व्याघातो विरोधोसहभाव
इति । अस्त्यात्मेत्येकं दर्शनम् । नास्त्यात्मेत्यपरम् । न च सद्भावासद्भावौ
सबैकत्र संभवतः । न चान्यतरसाधको हेतुरुपलभ्यते । तत्र सस्वा नव-
धारणं संशय इति । ( ४ ) उपलब्ब्यव्यवस्थातः खल्वपि सञ्चोदकमुप
लम्यते तडागादिषु । मरीचिषु चाविद्यमानमुदकमिति । ततः कचिदुप-
लम्यमाने तस्वव्यवस्थापकस्य प्रमाणस्यानुपलब्धेः किं सदुपलभ्यते
अथासत् इति संशयो भवति । (५) अनुपलब्ध्यव्यवस्थातः सच
नोपलभ्यते मूलकीलकोदकादि । असञ्चानुत्पनं निरुद्धं वा । ततः
 
९२८