This page has not been fully proofread.

४६
 
न्यायकोशः ।
 
च साधारणधर्मवत्ताज्ञानविधया संशये प्रयोजकमिति प्राचीनमते साधार-
णानैकान्तिकलक्षणे धुपयुज्यते इति च विज्ञेयम् (चि० सत्प्र० २११०) ।
४ [क] कारणाधिकरणे कार्यस्य सत्त्वम् ( राम०५२ ) । यथा यत्सत्त्वे
( कारणसत्त्वे ) यत्सत्त्वम् ( कार्यसत्वम् ) इत्यन्वयः । [ ख ] कार्य-
कारणयोः साभ्यसाधनयोर्वा साहचर्यम् ( सि० च० २।२६ ) । तत्र
कार्यकारणयोः साहचर्य च स्वस्वव्याप्येतरयावत्कारणसत्त्वे यत्सत्त्वेवश्यं
यत्सत्त्वमिति ( त० प्र० ) । यथा चक्रादिघटितसामग्रीसमवहितदण्डा-
दिसत्त्वे घटसत्त्वमिति । साध्यसाधनयोर्यथा पर्वतो वहिमान्धूमात् इत्यादौ
घूमवढ्योः साहचर्यम् यत्र घूमस्तत्राग्निः इति । [ग] केचित कार्ये कार-
णस्यानुसरणम् । [ घ ] कार्यसत्तापादकखसत्ताकस्य कारणस्य कार्ये
स्थितिः । [ ङ ] स्वसत्तानियतसत्तावत्कार्यसंबन्ध इत्याहुः । ५ हेत्वभाव-
वति कार्यान्वयज्ञानम् । व्यमिचारज्ञानमिति यावत् इति नव्या आड: (मू०
म० १) । ६ शाब्दबोषीयसंसर्गतारूयविषयतावान् । यथा घटमानय
इति वाक्यजन्यशाब्दबोचे घटानयनादीनां पदार्थानां परस्परं संबन्धः ।
अयं चान्वयो द्विविधः । भेदान्वयः अभेदान्वयः । आद्यो राज्ञः पुरुषः
इत्यादौ राजपदार्थपुरुषपदार्थयोः । द्वितीयो नीलो घट: इत्यादौ नीलप-
दार्थघटपदार्थयोः (ग० व्यु० का० १) । ७ वृत्तिः । ८ आनुकूल्यम् ।
९ संततिरिति काव्यज्ञा वदन्ति ( वाच० ) ।
 
-
 
अन्वयदृष्टान्तः– ( दृष्टान्तः ) [ क ] निश्चितसाध्यवान् ( वाक्य ० २ ) ।
[ ख ] पक्षे हेतुप्रत्यक्षानन्तरं यदन्तर्भावेण साध्यनिरूपितव्याप्तिः स्मर्यते
सः । यथा पर्वते धूमेन वह्रिसाधने महानसोन्वयदृष्टान्तः ।
 
-
 
अन्वयबोधः - शाब्दबोध-शब्दवदस्यार्थोनुसंधेयः । अत्रेयं व्युत्पत्तिः ।
अव्ययनिपातातिरिक्तनामार्थयोः कियाप्रातिपदिकार्ययोच साक्षाद्भेदे-
नान्वयबोधः अव्युत्पन्नः इति । यथा-नैयायिकमते राजपुरुषः इत्यादी
राजपदार्थस्य पुरुषपदार्ये स्वस्वामिभावसंबन्वेनान्वयो बाच्यः । तथाविधा-
न्वयस्य पूर्वोक्तव्युत्पत्तिविरुद्धत्वेन तं परित्यज्य राजपदस्य राजसंबन्धिनि
लक्षणां स्वीकृष्य तादृशराजपदार्थस्याभेदेन पुरुषपदार्थेन्वयः । वैयाकरण-