This page has not been fully proofread.

सावनसौसक्यमैदात् । तत्र चान्द्रः चैत्रप्रतिपदाविपतलगुनदर्शान्तः ।
सावन: पहचुत्तरशतनयाहोरात्रात्मकः । सौरस्तु मेषादिमानान्तः (पु०
चि० पृ० ९ ) ।
 
संबरः -आस्रवनिरोधः । येनात्मनि प्रविशत्कर्म प्रतिषिष्यते स गुतिस-
मित्यादिः ( सर्व० सं० पृ० ७८ आई० ) ।
 
संवाद :- १ समयबादः ( वात्स्या० ४।२।४५) । यथा ज्ञानमहणा-
म्यासस्तद्वियैः सह संवादः ( गौ० ४।२।४५) इत्यादौ संवादशब्द-
स्यार्थः । २ संमतिः । ३ अविरुद्धार्थज्ञानम् ।
 
संवादक:-
पूर्वोक्तसंवादकर्ता । पूर्वमुपदर्शितम प्रापयन्सवादक उच्यते
इति बौद्धा आहुः ( न्या० वि० टी० पृ० ३ ) ।
 
-
 
संवाहः - प्राकारपरिखायुक्तः श्रेणीधर्मान्वितो देश: (कैयट: ७ । ३ । १४) ।
संचित् – अत्रोच्यते द्वयी संविद्वस्तुनो भूतशालिनः । एका सा स्पष्टविषया
तन्मात्रविषया परा ॥ तन्मात्रविषया वापि द्वयी साथ निगद्यते । प्रति-
योगिनि दृश्ये च घटादिप्रतियोगिनः ॥ (सर्व० सं० पृ० ४३० शां० ) ।
संकृतिः असत्प्रकाशनशक्तिरविद्या संवृतिरिति पर्यायाः ( सर्व० सं० पृ०
४३९ शां० ) ।
 
संशय: -१ [क] एकस्मिन्धर्मिणि विरुद्ध नाना कोटिकं ज्ञानम् (त० सं० ) ।
इदं तु बोध्यम् । संशयच प्रत्यक्षरूपः संनिकर्षजन्यत्वात् इति । अत
एवोक्तम् परोक्षज्ञानमनाहार्ये निश्चयश्चेति सिद्धान्तात् इति । संक्षयो न्याय-
स्पाङ्गं भवति । यस्मानानुपलब्धे न निर्णीते न्यायः प्रवर्तते अपि तु सं-
दिग्धे (न्या० वा० ११० १४) । अत्र विशेषादर्शनम् कोटियस्मरणम्
धर्मिज्ञानं च संशयमात्रे हेतुः इति विज्ञेयम् ( सि० च ० ) ( त० प्र० ४
पृ० १३१ ) । संशयलक्षणं तु स्वीयैक कोटिप्रकारतावच्छिन्न प्रतिबन्यता-
निरूपित प्रतिबन्धकतावच्छेद की भूतापरकोटिप्रकारताशालिज्ञानस्वम् (दि०
गु० ) । अत्र संशयीयविषयतायाः प्रतिबन्धकताब छेद करकपनं व
संशये विशेष्यताद्वयम् इति पक्षाभिप्रायेणेति विज्ञेयम् । संज्ञये च उमय-