This page has not been fully proofread.

न्यायकोशः ।
 
९२५
 
उ० ५१२११ ) ( प्रशस्त ० गु० पृ० ३१) । संयोगप्रपञ्चचान्यत्र
 
(बै० उ० ७१२१९ ) द्रष्टव्यः । भत्रेदं बोध्यम् । संयोगस्तु
विरोधी स्याद्गुणत्वे सति कर्मण: ( ता० २० श्लो० ४३) इति ।
[ ख ] संयुक्तव्यवहारहेतुः ( त० सं० ) । यथा घटभूतलसंयोगः ।
संयुक्त व्यवहारासाधारणकारणम् इत्यर्थः ( त० कौ० ) । असाधारणत्व-
विशेषणेन साधारणकारणकाला दिव्यावृत्तिः ( त० दी० ) । [ ग ]
अप्राप्तयोः प्राप्तिः ( भा०प० गु० ) ( प्रशस्त० गु० पृ० ३१) ।
[ घ ] अप्राप्तिपूर्विका प्राप्तिः (वै० उ० ७ १२१९ ) । संयोगो द्विविधः
कर्मजः संयोगजश्चेति । तत्र कर्मजोपि द्विविधः अन्यतरकर्मज: उभय-
कर्मजच । तत्राद्यः अन्यतरकर्मज: श्येनशैलादिसंयोगः द्वितीय
उभयकर्मजः मेघयोर्मल्लयोर्चा मेघयोर्वा संनिपातः । अत्राद्यः क्रियावता
निष्क्रियस्य । यथा स्थाणोः श्येनेन विभूनां च मूर्ते: सह संयोगः ।
द्वितीयस्तु विरुद्ध दिकिययोः संनिपातः ( प्रशस्त० पृ० ३१ ) । संयो-
गजस्तु अवयवसंयोगजन्यः । स च उत्पन्नमात्रस्यैव चिरोत्पन्नस्य वा
निष्क्रियस्य कारणसंयोगिभिरकारणैः कारणाकारणसंयोगपूर्वकः कार्या-
कार्यगतः संयोगः । स च एकस्मात् द्वाभ्याम् बहुभ्यश्च भवति ।
एकस्मात्तावत् तन्तुवीरणसंयोगावितन्तुकवीरणसंयोगः । द्वाभ्यां तन्त्वा-
काशसंयोगाभ्यां द्वितन्तुकाकाशसंयोगः । बहुभ्यश्च तन्तुतुरीसंयोगेभ्य
एक: पटतुरीसंयोगः । अत्रेदं बोध्यम् । उत्पन्नमात्रस्य निष्क्रियस्य
द्वितन्तुकस्य पटस्य कारणसंयोगिना (कारणस्य तन्तोः संयोगिना )
अकारणेन वीरणेन तृणविशेषेण यः संयोगः स एकस्मात् कारणस्य
ततोर कारणेन वीरणेन संयोगात् कार्ये द्वितन्तुकपटे अकार्ये वीरणे
जायते । एवमग्रेपि । चिरोत्पन्नस्य यथा अङ्गुलीतरुसंयोगात्कायतरु-
संयोगादिः । कपालतरुसंयोगात्तरुकुम्भयोः संयोगः । इदं च बोध्यम् ।
नास्त्यजः संयोगः । परमाणुभिराकाशादीनां प्रदेशवृत्तिरम्पतरकर्मज एव
संयोगः । विभूनां तु परस्परं संयोगो नास्ति । युतसिद्धयभावात् ।
विनाशस्तु सर्वस्य संयोगस्यैकार्थसमत्रेताद्विभागात् । कचिव आश्रय-
विनाशादपि । तथा हि । तन्त्वोः संयोगे सति अन्यतरतन्त्वा-