2023-02-20 00:57:18 by ambuda-bot
This page has not been fully proofread.
९२४
न्यायकोशः ।
-
संमुखी – ( तिथि: ) संमुखी नाम सायाहव्यापिनी दृश्यते यदा । प्रतिप-
संमुखी कार्या या भवेदापरादिकी ॥ ( पु० चि० पृ० ५४ ) ।
संमूर्छनम् – मोहः । तत्स्वरूपं च प्राक् (१० ६५६ पं० १३) प्रदर्शितम् ।
संयमः – एकवस्तुविषयकं धारणाध्यानसमाधिरूपं त्रयम् । यथा अस्मान् साधु
विचिन्त्य संयमधनान् ( शाकुन्त ० ४ । १६) इत्यादौ संयमशब्दस्यार्थः ।
अत्र सूत्रम् त्रयमेकत्र संयम: ( पात ० पाद० ३ सू० ४ ) इति । तत्र
भाष्यम् एकविषयाणि त्रीणि साधनानि संयमः इत्युच्यते इति ।
संयोगः – १ ( गुणः ) [ क ] संयुक्तप्रत्ययनिमित्तम् ( प्रशस्त ० गुण ●
पृ० ३० ) । विभाग जनककर्मजगुणवृत्तिगुणत्वव्याप्यजातिमत्त्वं संयोग-
लक्षणम् ( उ० व० ) । संयोगं प्रति युतसिद्धि प्रयोजिका ( बै०
i
७।२।१३) (वै० उ० ७ १२१९ ) । संयोगः अव्याप्यवृत्तिरनित्यः सर्व-
द्रव्यवृत्तिश्च ( वाक्य० ) । विभुनोर्नित्यत्वात्तत्संयोगः स्वीक्रियते चेत्स
नित्यः स्यात् । परं त्वकिंचित्करः स इत्यतो न विभुद्वयसंयोगः । अतः सर्वः
संयोगः अनित्यः इति भावः । विभुनोस्तु न संयोगः । कर्मयुतसिद्ध्या-
दिरूपकारणाभावात् ( वै० उ० ७ १२१९ ) इति । संयोगो द्रव्यगुण-
कर्महेतुः । तत्र द्रव्यारम्भे निरपेक्षः गुणकर्मारम्भे तु सापेक्षः । संयुक्त
समवायादमेवैशेषिकम् (वै० १०।२।७ ) । अमेर्वैशेषिकं विशेषगुण
औष्ण्यं संयुक्तसमवायात्पाकजेषु निमित्तकारणम् ( वै० उ० ७।२।९ )
( प्रशस्त० पृ० ३० ) । संयोगस्य गुणहेतुत्वमुच्यते । बुद्धिसुखदुःखे-
च्छाद्वेषप्रयत्नधर्माधर्मभावनाशब्द तूल परिमाणोत्तर संयोगनैमित्तिकद्रवत्यप-
रत्वापरत्वपाकजाश्च एते संयोगासमवायिकारणकगुणाः । तत्र भा-
वनान्तेषु गुणेषु आत्ममनोयोगो हेतुः । शब्दविभागाजन्ये शब्दे
भेर्या काशसंयोगः असमवायिकारणं भवति । स च अभिघातः इत्यु-
च्यते ( ३० वि० ७१२९ ) । तथा तूलपरिमाणे प्रचयः उत्तरसंयोगे
संयोगजसंयोगे अवयवसंयोगः नैमित्तिकद्रवत्वे तेजःसंयोगः परत्वा-
परत्वयोर्दिकालसंयोगः पाकजे रूपादौ तेजः संयोगः असमवायिकारणं
भवति ( प० मा० ) । कर्मणि हेतुभूतः संयोगस्तु नोदनादिः (३०