This page has not been fully proofread.

न्यायकोचः ।
 
संप्रश्नः – (लिकर्यः ) संप्रधारणम् (पाणि० सू० ३।३।१६१ काशिका ) ।
तथ उपस्थितक्रिययोर्मध्य एकतरक्रियाधर्मिकेष्टसाधनस्व निर्णयेच्छा । यथा
किं भो वेदमधीयीय उत तर्कम् इत्यादौ लिडर्थः । अत्र स्वोद्देश्य-
कत्वसंबन्धेन संबोध्यविशिष्टा मन्निष्ठा च वेदाध्ययनतर्काप्ययनान्यतर-
भावना इष्टसाधनत्वप्रकारकनिर्णयेच्छाविषयः इति बोधः ( बै० सा०
५० लका० पृ० १३१) ।
 
संप्रसादः - १ सम्यक् प्रसन्नता । २ योगशास्त्रज्ञास्तु चित्तस्य नैर्मल्य-
• संपादको यत्नविशेष इत्याहुः । ३ वेदान्तिनस्तु सुषुप्तिस्थानम् प्राणः
( शारी० भा० ) । ४ पूर्णसुखम् ( मध्यभा० ) । अत्रायं विवेकः ।
ॐ भूमा संप्रसादादध्युपदेशात् ॐ ॐ ( ब्रह्मसू० १३१८ ) इत्यधिकरणे
स वा एष एतस्मिन् संप्रसादे रत्वा चरित्वा दृष्टेष पुण्यं च पापं च
पुनः प्रतिन्यायं प्रतियोन्याद्रवति इति बृहदारण्यके (४।३।१५-१७)
स्वप्नजागरितस्थानाम्यां सह प्रयोगात् संप्रसादः सुषुप्तिस्थानमुच्यते इति
शंकरभारतीमतम् ( शारी० मा० टी० रत्नप्र० ११३१८ ) । मध्वाचार्य-
मते तु तत्र यो वै भूमा तत्सुखम् नाल्पे सुखमस्ति भूमैव सुखम् इति
छान्दोग्यश्रुतौ (७।२३) भूम्नः पूर्णसुखरूपत्वाभिधानात् संप्रसादः
पूर्णसुखम् ( मध्वभा० टी० तत्वप्र० १९।३।८ ) इति । ५ जीवः ।
यथा य एष संप्रसादोस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन
रूपेणामिनिष्पद्यत एष आत्मेति होवाच ( छान्दो० उप० ८/३/४ )
इत्यादौ इत्यादुः (ब्रह्मसू० मा० १।३।१८ ) ।
 

 
संबन्धः - १ [ क ] संबन्धि मिन्नत्वे सति संबन्ध्याश्रितः । [ख]
स्वमिन्नसंबन्ध्याश्रितः स्वमिन्न प्रतियोगिकः पदार्थ: ( सि० ० १
पृ० ३ ) । यथा घटभूतलयोः संयोगः । यथा वा प्रत्यक्षस्थल इन्द्रि-
यार्थसंनिकर्षः । [ग] संबद्धव्यवहारहेतुः ( सि० च० ) । यथा
घटवद्भूतलम् इति शाब्दबोधस्थले संयोगः । संबन्धस्त्वं च यत्किंचि
स्पदार्थानुयोगिकत्वविशेषः ( ग० २ व्याप्ति० सिद्धा० ) । अथ वा
सांसर्गिक विषयता श्रयत्वम् ( राम० १५० ४०) । संबन्धो द्विविधः