This page has not been fully proofread.

न्यायकोय ।
 
संप्रदायःगुरुपरंपरागतः सदुपदेशः । यथा वैष्णव संप्रदायान्तर्गवी
मध्यसंप्रदाय: । ईश्वर एव सर्वसंप्रदायप्रद्योतकः । तथा हि ईश्वरो भूलावेश-
म्यायेन निर्माणकायमधिष्ठाय सर्वसंप्रदायप्रद्योतकः ( कु० ) इति
पातकला भाडु: । मम्बशरीरात्कथं वेदवटादिशब्दव्यवहारसंप्रदायः ।
समाते । सर्गादावदृष्टोपगृहीतभूतभेदान्मीमशरीरोत्पत्ताबदृष्टवदात्मसंयोगा-
ददृष्टसङ्कृतप्रयत्नवदीश्वरसंयोगाद्वा सकढवेदार्थगोचरज्ञानाद्विवक्षासहिता-
म्मीनकलेबरकण्ठतात्वादिक्रिया जन्य संयोगादोत्पत्तिः । एवम् कुल्लालादि-
शरीराबच्छेदेनादृष्टसहकृतप्रयशवदीश्वरसंयोगात् बहुद्धीच्छासहितचेष्टो-
स्पतौ सकडघटानुकूलव्यापाराइटोम्पत्तिः । एवम् प्रयोज्यप्रयोजककानाय
व्यापाराभिमतशरीरावच्छेदेनापि अदृष्टसहकृतेश्वरज्ञानेच्छा प्रयत्नादेव वा-
ग्व्यवहारः । ततस्तरसुशीलो बालो व्युत्पद्यते सोयं भूतावेशन्यायः
(चि० २ परिशिष्टे ईश्वरवादः पृ० २३) इति । संप्रदायप्रवर्तक मेदास्तु
पद्मपुराणे श्रीमन्नारायणो ब्रह्मा नारदो व्यास एव च । श्रीलमध्वः पद्म-
नाभो नुहरिर्माधवस्तथा ॥ अक्षोभो जयतीर्थश्च ज्ञानसिंधुर्महानिषिः ।
विद्यानिधिश्व राजेन्द्रो जयधर्ममुनिस्तथा ॥ पुरुषोत्तमो ब्रह्मण्यो व्यास-
तीर्थमुनिस्तथा । श्रीमल्लक्ष्मीपतिः श्रीमान्माधवेन्द्रपुरी तथा ॥ संप्रदाय -
विहीना ये मन्त्रास्ते निष्फला मताः ॥ अतः कलौ भविष्यन्ति चत्वारः
संप्रदायिनः ॥ श्रीमध्यरुद्रसनका वैष्णवाः क्षितिपावनाः (पद्मपु० )
( वाच० ) इति । तथोक्ता वैष्णवादिसंप्रदाया यथा श्रीशिव उवाच ।
वैखानसः सामवेदी श्रीराधावल्लमी तथा। गोकुलेशो मद्देशानि तथा
वृन्दावनी भवेत् ॥ पञ्चरात्रः पञ्चमः स्यात् षष्ठः श्रीवीरवैष्णवः ।
रामानन्दी हविष्याशी निम्बार्कश्च महेश्वरि ॥ ततो भागवतो देवि दश
भेदाः प्रकीर्तिताः । शिखी मुण्डी जटी चैव द्वित्रिदण्डी क्रमेण च ॥
एकदण्डी महेशानि वीरशैवस्तथैव च । सप्त पाशुपता: प्रोक्ता दशधा
वैष्णवा मताः ॥ ( शक्तिसंग० त० ) ( वाच ० ) इत्यादि ।
 
संप्रचारणा - १ संप्रश्नः । २ समर्थनम् (वै० सा० द० ल० पृ० १३१)
( म० २५८०२५)। ३ स्पर्धा।