2023-02-20 00:57:16 by ambuda-bot
This page has not been fully proofread.
'भिन्नो यो वतावच्छेदकफलसंबन्धः स निरूपकताम् ।
तादृशसंबन्ध वस्त्रेनेष्टत्वं च ब्राह्मणस्यैव न तु गोः इति ( ग० ब्युo
का० ४ ) । [ङ ] शाब्दिकास्तु प्रकृतधास्वयें यत्कर्म तरसंबन्धित्वे-
नेच्छोदेश्यत्वम् इति वदन्ति । संप्रदानं त्रिविधम् प्रेरकम् अनुमन्तृ
अनिराकर्तृ ( उदासीनं ) चेति । तदुक्तं वाक्यपदीये अनिराकरणाकर्तु-
स्याग कर्मणेप्सितम् । प्रेरणानुमतिभ्यां च लभते संप्रदानताम् ॥
इति । अत्र प्रेरकत्वं च प्रकृतधात्वर्थक्रियाजन्यफलमागितयेच्छाविषयत्वे
सति कर्तृसंबन्धित्यागादिविषयकेष्टसाधनताबोषौ पथिकव्यापारबत्वम् ।
अनुमन्तृत्वं च जातेष्टसाधनताबोधे अप्रामाण्यशङ्कया शिथिलस्य कर्तु-
स्तादृशशङ्काविधूननक्षमप्रमाणोपन्यासेन प्रवर्तनम् । कर्मनिष्ठस्वत्वादि-
फलाभ्युपगममात्रानुकूलव्यापारवत्वं वा । अनिराकर्तृत्वं च प्रकृत-
धात्वर्थक्रियाजन्यफलभागितयेच्छाविषयत्वे सति कर्तृप्रवृत्तिनिवृस्यन्यत-
रानुकूलव्यापाराभाववत्त्वम् ( वै० सा० ८० ) । तत्राद्यम् विप्राय
( याचकाय ) गां ददाति इत्यादौ विप्रः । द्वितीयम् उपाध्यायाय गां
ददाति इत्यादानुपाध्यायः । तृतीयं च देवता । यथा सूर्मायायै ददाति
इत्यादौ सूर्य: ( ल० म० का० ४ पृ० १०१ ) । नात्र सूर्य: प्रार्थ-
यते नानुमन्यते न निराकरोति इति सूर्यस्योदासीनता विज्ञेया ( ३०
सा० ८० पृ० २०० ) । कचित् विषयित्वम् चतुर्थ्यर्थः । यथा
चैत्राय कुप्यति क्रुध्यति इत्यादौ चतुर्ध्यर्थः संप्रदानत्वम् । एवम् पटाय
यतते इत्यादौ उद्देश्यत्वरूपं संप्रदानत्वं चतुर्थ्यर्थो धात्वर्थकृतौ बोच्यते ।
मदं बोध्यम् मित्रं दुपति शिष्यमीर्ष्यति पुत्रमसूयति इत्यपि प्रयोगात्
द्रोहादिफर्मणः संप्रदानत्वं वैकल्पिक मुन्नीयते इति । कोपपूर्वकस्य द्रोहादेः
दुहादिधातुबाच्यस्वे तत्कर्मणः संप्रदानत्वम् । द्रोहादिमात्रस्य तथात्वे तु
कर्मलमेव इति पुनः कौमारा आहुः । अत्रेदं बोध्यम् । सोपसर्गयोः
कुषद्रुहोः कर्मणः कर्मतैष न तु संप्रदानता । अत एव शिष्यस्याभि-
कोडर मित्रस्यामिद्रोढा इत्यादौ कृद्योगे कर्मणि नेम प्रमाणम् ( श०
प्र० को० ७० टी० पृ० ८७ ) ।