2023-02-20 00:57:16 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
विप्रस्य संप्रदानत्वम् । अत्र संबन्धित्वेन परेच्छाविषयत्वं चतुर्थ्यर्थः । स
व धात्वर्यतावच्छेदकफलेन्वेति । वृत्तित्वं द्वितीयार्थः । तथा च विप्रसं-
बन्धिपरेच्छाविषयगोवृत्तिस्वस्वत्वध्वंस परस्वत्वानुकूलत्यागानुकूलकृतिमान् ।
इत्यन्वयधीः । अत्र चैत्राय यच्छति इत्यादिप्रयोगवारणाय पर इति पदं
दत्तम् ( का० व्या० कार० ४ पृ० ८ ) । कर्मणा यममिप्रति स
संप्रदानम् ( पाणि० ११४/३२ ) इति सूत्रेण विप्रस्य संप्रदानसंज्ञा ।
तदर्थक्ष तक्रियाकरणीभूतेन तत्क्रियाकर्मणा यमभिप्रैति संबन्धुमिच्छति
सः फलभागित्वेनोद्देश्यः संप्रदानसंज्ञकः इति । अत्र गौणमुख्यसाधारणे
संप्रदाने चतुर्थी भवति (बाच० ) । पितृस्वर्गोदेशेन कृतगोदानादिस्थले
दानजन्यस्वर्गात्मकफलभागित्वेन पितुरुद्देश्यत्वेपि पितृस्वर्गादिकस्य धात्व-
र्थताबच्छेदकत्वाभावेन न पित्रादेः संप्रदानत्वम् इति पित्रे गां ददाति
इति न प्रयोगः ( का० व्या० कार० ४ पृ० ८ ) । [ ग ] किया-
जन्यफलभागितया कर्तुरिच्छाविषयत्वम् (ग० व्यु० का० २ पृ० ४३) ।
ब्राह्मणाय गां ददाति इत्यादौ क्रिया च दानम् । तज्जन्यं फलं तु स्वत्वम् ।
तथा च दानस्य स्वस्वहेतुत्वे प्रमाणम् सप्त वित्तागमा धर्म्या दायो लाभः
कयो जयः । प्रयोगः कर्मयोगश्च सत्प्रतिग्रह एव च ॥ ( मनु० अ० १०
१० ११५ ) इत्यादि । प्रदानं स्वाम्यकरणम् इति च । अत्राय-
माशयः । ब्राह्मणाय त्यक्तायां गवि गौरियं ब्राह्मणस्य न तु मम इत्यादिः
सार्वजनीनप्रतीतिरेष तत्र प्रमाणम् ( श० प्र० हो० ७० टी०
पृ० ८५ ) इति । [घ ] धास्वर्थताबच्छेदकफ लाश्रयत्वभिन्नफलसंबन्ध-
विशिष्टतयेष्ठस्त्रम्। यथा ब्राह्मणाय गां ददाति इत्यादी ब्राह्मणस्य
संप्रदानस्वम् । तथा चात्र निरूपितत्वेन कर्तुरिच्छाविषयत्वं चतुर्य्यर्थः ।
स्वम्वजनकण्यागो ददात्यर्थः । निरुक्तचतुर्ध्यर्थस्य द्वितीयान्तार्थगोवृत्ति-
त्वस्य च धात्वर्यतावच्छेदकस्वत्वेन्वयः । एवं च ब्राह्मणनिरूपितत्वे-
नेच्छाविषयगोनिष्ठखत्वजनकत्यागकर्ता इति बोधः । धात्वर्थताषच्छेद-
व्यत्र संबन्धस्तादृशाश्रयत्वभिभोवश्यं प्राह्मः । तेन विप्राय गां ददाति
इत्यादौ स्वस्वत्वध्वंसविशिष्टायाः परस्वत्वजनकेच्छाया दाघात्वर्थत्वे
गोर्धात्वर्थतावच्छेदकीभूतपरस्वत्वात्मक फलाश्रयत्वेनेष्ठत्वेपि नातिव्यातिः ।
को०
।