This page has not been fully proofread.

न्यायकोशः ।
 
संप्रतिपत्तिः - १ निश्चयः (गौ० ० २।१।३) । यथा विप्रतिपत्तौ च
संप्रतिपत्तेः ( गौ० २।१।३ ) इत्यादौ संप्रतिपत्तिशब्दस्यार्थो निश्चयः ।
२ प्रत्यभिज्ञा (वै० उ० २१२१३५ ) । यथा संप्रतिपत्तिभाषाञ्च
(बै० २/२/३५ ) इत्यादौ संप्रतिपत्तिशब्दस्यार्थः प्रत्यमिज्ञा । ३ उत्पत्तिः
( गौ० वृ० ३।१।१९) । यथा पूर्वाभ्यस्तस्मृस्यनुबन्धाब्यातस्य हर्षमय-
शोकसंप्रतिपत्तेः ( गौ० ३।१।१९) इत्यादौ संप्रतिपत्तिशब्दस्यार्थ
उत्पत्तिः । ४ तदनुभवः संप्रतिपत्तिः ( न्या० वा० ) । ५ व्यवहारशास्तु
बायुक्तार्थविषयस्वीकारः सत्योत्तररूप उत्तरविशेष इत्याहुः । तदुक्तम्
श्रुत्वाभियोगं प्रत्यर्थी यदि तं प्रतिपद्यते । सा तु संप्रतिपत्तिः स्यात्
इति स्मृतिः । तथा मिथ्या संप्रतिपत्तिश्च प्रत्यवस्कन्दनं तथा । प्राङ्-
न्यायचोत्तराः प्रोक्ताश्चत्वारः शास्त्रवेदिभिः ॥ इति च कात्यायनस्मृतिः
( मिताक्षरा अ० २ को० ७) ।
 
संप्रदानत्वम् – ( कारकम् ) [ क ] गत्यादिमिन्ने यद्धातूपस्थाप्ये यादृशार्थे
विग्रहस्थचतुर्थ्या यः स्वार्थो बोधयितुं शक्यते स तद्धातूपस्थाप्यतादृश-
क्रियायां संप्रदानत्वमुच्यते । यथा ब्राह्मणाय दानं 'धनस्य इत्यादौ
ब्राह्मणस्य संप्रदानत्वम् । ग्रामाय गतः इत्यादौ विग्रहस्थचतुर्थ्या धास्वर्थे
बोध्यमपि कर्मत्वं न गत्यादिभिन्ने चतुर्थ्या बोधयितुं शक्यते । वृक्षाय
सेन्चकः इत्यादौ गत्यादिभिने चतुर्थ्या बोधनीयोपि संवर्धयितुं इत्यादितु-
मर्यो न विग्रहस्थया इति न तत्र प्रसङ्गः । संप्रदानशब्दस्तु स्वाश्रय-
गोचरत्यागजन्यस्वस्वस्य प्रतियोगिन्येव शक्तः इति स्वत्वप्रतियोगित्वं
संप्रदानत्वम् इत्यादिको न प्रयोगः । ब्राह्मणाय दानमित्यत्र ददातेः स्वत्व-
अनकस्त्यागोर्थः । तम्निविष्टे च स्वत्वे ब्राह्मणादेः प्रतियोगित्वं निरूपि
तत्वं वा चतुर्थ्या बोभ्यते इति तदेव तत्र संप्रदानत्वम् । ब्राह्मणप्रति-
योगिकं ब्राह्मणनिरूपितं वा यद्धनवृत्ति स्वयम् तज्जनकस्यागः इत्येवं
तत्र प्रत्ययात् । धात्वर्यतावच्छेदकी भूत स्वत्वाख्यफलबत्तया धनादेर्दान-
कर्मत्वात् ( श० प्र० लो० ७० टी० पृ० ८४-८५ ) । [ ख
धात्वर्थताबच्छेदकफलभागित्वेनोदेश्यत्वम् । यथा विप्राय गां ददाति इत्यादौ