This page has not been fully proofread.

$18
 
संनिकृष्टत्वम् इति विशेषम् । अथ वा
 
अल्पसंयोगान्तरितम् ( वै०
उ० ७१२१२१ पृ० ३४२ ) ( दि० गु० पृ० २०८) । यथा
पथबव्याख्यम्बकेश्वरमपेक्ष्य जनस्थानसंनिकृष्टत्वम् । यथा वा सङ्घचसंनि-
कर्षो हि क्षणार्धमपि शस्यते ( पुराणम्) इत्यादौ संनिकर्षशब्दस्पार्थः ।
२ तदपेक्षयाल्पतरतपनपरिस्पन्दान्तरितजन्मत्वम् (वै० उ० ७१२ २१
पु० ३४३ ) । तदर्थस्तु सदधिकरणकालध्वंसाधिकरणक्षणवृत्तिजन्म-
बत्वम् (प० मा० ) इति । एतच काळकृतं संनिकृष्टत्वम् इति विज्ञेयम् ।
यथा युधिष्ठिरमपेक्ष्यार्जुनस्य भीमसंनिकृष्टत्वम् । शिष्टं च अपरत्वशब्द-
व्याख्यानावसरे संपादितम् इत्यत्र विरम्यते । ३ निकटसंबन्धः ।
 
संविधानम् -१ अव्यवधानम् (मु० ४ ) । यथा संनिधानं तु पद-
स्यासत्तिरुच्यते ( भा० प० ४ श्लो० ८४ ) इत्यादौ संनिधानशब्दार्थः ।
२ सामीप्यम् (संनिकृष्टत्वम् ) । ३ अविनाभाववृत्तिः संनिधिः (बात्स्या०
२१२/५८ ) । यथा तदर्थे व्यत्तयाकृतिजातिसंनिधावुपचारात्संशयः
( गौ० २२२२५८) इत्यादौ संनिधिशब्दस्यार्थः । अत्र वृत्तिकारस्तु
सामीप्यम् मेलनम् संनिधिः इत्याह ( गौ० वृ० २२५८) ।
४ इन्द्रियविषयता इति केचिदाह: ( मेदि० ) ।
 
संनिषत्योपकारकम् – कर्माङ्गद्रव्यायुदेशेन विधीयमानं कर्म । यथावघात-
प्रोक्षणादि ( मी ० न्या० पृ० ३४ ) ।
 
संदिपात: - १ पतनम् । यथा दृष्टिसंनिपात इत्यत्र । २ शाब्दिकाश्च
संश्लेषः ( संबन्धः ) । यथा संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्य
(व्याक० परिभा० ) इत्यादौ संनिपातशब्दस्यार्थं इत्याहुः । ३ भिषजस्तु
कफादिधातुत्रयस्य वैषम्यरूपत्रिदोषजनितो ज्वर विशेष इव्याहुः । संनि-
पातज्वरावस्थं प्रकृत्याह तदषस्थं तु तं दृष्ट्वा मूढो व्याहरते जनः ।
धर्षितो राक्षसैर्नूनमवेलायां चरन्ति ये ॥ अम्बया ब्रुवते केचियक्षिण्या
ब्रह्मराक्षसैः । पिशाचैर्गुकै क्षेत्र तथान्यैर्मस्तके इतम् ॥ कुलदेवार्चना-
हीनं तिं कुब्दैवतैः । नवाञपीडामपरे गरकर्मेति चापरे ॥ संनि-