This page has not been fully proofread.

न्यायकोशः ।
 
कर्मणां विप्रः संभ्याहीनो यतः स्मृतः ( स्मृतिः) इत्यादौ संभ्याशब्द-
स्यार्थः । अत्र व्यास आह उपास्ते संधिवेलायां निशाया दिवसस्य च ।
तामेव संध्यां तस्मात्तु प्रवदन्ति मनीषिणः ॥ इति । संध्यात्रयसाधारण-
लक्षणमाह योगियाज्ञवल्क्यः त्रयाणां चैव देवानां ब्रह्मादीनां समागमः ।
संधिः सर्वसुराणां च तेन संध्या प्रकीर्तिता ॥ इति । एतत्संध्यात्रयं
प्रोक्तं ब्राह्मण्यं यदधिष्ठितम् । यस्य नास्त्यादरस्तत्र न स ब्राह्मण
उच्यते ॥ (छन्दोगप० ) ( वाच० ) इति । संभ्याफलं पापव्यपोहः
( मनु० २११०२) । ५ वेदान्तिनस्तु प्रबोधगाढनिद्रावस्थयोः संधि-
भवः स्वप्नः । यथा संध्ये सृष्टिराह हि ( ब्रह्मसू० ३।२।१ ) इत्यादौ
संध्यशब्दस्यार्थ इत्याहुः । अत्रार्थे व्युत्पत्तिः जाग्रत्सुषुप्तिसंधौ भवति इति
संध्यः स्वप्नः (तस्त्रप्रकाशिका ३१२।१)।
 
1
 
संनिकर्ष: - १ प्रत्यक्षजनकः संबन्धः । यथा चाक्षुषप्रत्यक्षे चक्षुर्विषययोः
संसर्गः । संनिकर्षो द्विविधः लौकिक: अलौकिकश्चेति । वार्तिककारै-
श्वेत्यमुक्तम् । योयं संनिकर्षशब्दः संयोगसमवायविशेषणविशेष्यभाव-
व्यापकत्वादुपात्त इति सोयं संनिकर्षः प्रत्यक्षस्य कारणं भवति ( न्या०
वा० १ पृ० ३३ ) । विशेषण विशेष्यभावोत्र न विषयतारूपः । अपि
तु स्वरूपसंबन्धावच्छिन्नाधाराधेयभावः (नील० १ पृ० १८) ।
मध्वमतानुयायिभिरयं षडिधसंनिकर्षो नाङ्गीक्रियते । किं तु सर्वेन्द्रियाणां
स्वस्वविषये साक्षादेव रश्मिद्वारा संनिकर्षः ( प्र० प० पृ० ११) ।
शिष्टं तु इन्द्रियार्थसंनिकर्षशब्दव्याख्याने दृश्यम् ( प्रशस्त० गु०
पृ० ४२-४३ ) । २ संनिकृष्टत्वशब्दवदस्यार्थोनुसंधेयः ( वै०
उ० ७।२।२१ ) ।
 
संनिकृष्टत्वम् – सांनिध्यम् । अत्रायं कार्यकारणभाव: संनिकृष्टत्वबुद्धिर-
परत्वे निमित्तकारणम् इति ( वै० उ० ७ १२१२१ पृ० ३४२ ) ।
एतेन वैशेषिकमते संनिकृष्टत्वविप्रकृष्टत्वे ( दूरत्वसमीपत्वे ) परत्या-
परत्वाभ्यामतिरिक्ते एव । नव्यमते तु ते ताभ्यामनतिरिक्ते एव इत्युक्तम्
तु
इति विज्ञेयम् । सांनिध्यं च १ संयुक्तसंयोगाल्पत्वम् । तथ दिकृतं
 
११५ म्या० को●