This page has not been fully proofread.

९१२
 
न्यायकोशः ।.
 
इत्याहुः । श्री ईश इति स्थिते श्रीश इत्यच्संधिः । तत् लय इति
स्थिते तय इति हल्संधिः । ४ नाटकाङ्गविशेषः इत्यालंकारिका
आहुः । अत्रोक्तम् अन्तरैकार्थसंबन्धः संधिरेकान्वये सति ( सा० ८०
परि० ६ श्लो० ७५ ) इति । ५ अस्थिद्वयसंयोगस्थानम् इति शारी-
रज्ञा आहुः । ६ धर्मशास्त्रज्ञास्तु यस्मिन् काल आदित्यस्य खण्डमण्डल-
स्योपलब्धिः सः । यथा अहोरात्रयोः संधिः इत्यादावित्याहुः (मिता ० १ ) ।
७ चौरादिकृतसुरुङ्गा । यथा संधिं कृत्वा तु मे चौर्यम् ( स्मृति: )
इत्यादौ । ८ भगः । ९ संघट्टनम् । १० सत्यादियुगादीनामाद्यन्तौ काली
इति पौराणिका आहुः । अत्रोक्तम् ससंघयस्ते मनवः कल्पे ज्ञेयाश्चतु-
देश । कृतप्रमाणः कल्पादौ संधिः पञ्चदशः स्मृतः ॥ इति । तत्र
सत्ययुगस्य चत्वारि वर्षशतानि संध्या संध्यांशश्च । त्रेतायास्त्रीणि वर्ष-
शतानि संध्या संध्यांशश्च । द्वापरस्य द्वे वर्षशते संध्या संध्यांशक्ष। कलेरेक-
वर्षशतं संध्या संध्यांशश्च ( मनु० अ० १ श्लो० ६९-७० ) ।
संध्या - १ एकरूपकालोत्तरभाविपररूपकालयोरषकाशविशेषः । यथा
दिवारात्रस्य मध्यवर्तिकाल : संध्या भवति । स च काल: दिवाशेषदण्ड-
सहितरात्रिप्रथमदण्डात्मकः कालः । तयोश्चतुर्दण्डात्मककालश्च । तथा
च त्रियामां रजनीं प्राहुस्त्यक्त्वाद्यन्तचतुष्टये । नाडीनां तदुमे संध्ये
दिवसाद्यन्तसंज्ञिते ॥ इति । युगस्य तु पूर्व संध्या उत्तरच संध्यांशः
( मनु० टी० कुल्लू० १९६९ ) । तं चान्यरीत्याप्याहुः पूर्वदिवसीय-
रात्रिशेषदण्डादिपरदिन सूर्योदयपर्यन्तः सूर्यास्तापूर्वोत्तरदण्डात्मकः कालः
इति । संध्याद्वयकालस्तु अहोरात्रसंबन्धिमुहूर्तात्मकः । तथा च दक्ष
आह अहोरात्रस्य यः संधिः सूर्यनक्षत्रवर्जितः । सा च संध्या समा-
ख्याता मुनिभिस्तत्ववादिभिः ॥ ( पुरु० चि० पू० ४५८) इति ।
तथा नक्षत्रदर्शनात्संध्या सायं तत्परतः स्थितम् । तत्परा रजनी ज्ञेया
तत्र धर्मान्विवर्जयेत् ॥ ( पुरु० चि० पृ० ४६ ) इत्युक्तम् । २ सायाह्नः ।
३ संध्याकाळ: उपास्यदेवताविशेषः । अत्रार्थे प्रमाणम् संध्यामुपासते
ये तु नियतं शंसितव्रताः इति स्मृतिः । ४ संध्योपासना । यथा अनर्हः