This page has not been fully proofread.

न्यायकोशः ।
 
-
 
संदिग्धः - १ ( हेत्वाभासः ) [ क ] अनैकान्तिकशब्दवदस्यार्थोनुसंधेयः
(वै० २/२/३६, ३११/१५ ) ( त० व० २।३।४८ ) । तदुक्तम्
विरुद्धासिद्धसंदिग्ध मलिङ्गं काश्यपोब्रवीत् ( वै० उ० २/२/३६ )
( प्रशस्त० गुणनि० ) इति । [ ख ] यस्तु सन्ननुमेये तत्समाना-
समानजातीययोः साधारणः स सन्नेव संदेहजनकत्वात्संदिग्धः । यथा
यस्माद्विषाणी तस्मानौः इति । [ग] एकस्मिंश्च द्वयोर्हेत्वोर्यथोक्तलक्षण-
योर्विरुद्धयोः संनिपाते संशयदर्शनादयमन्यः संदिग्धः इति केचिदाहुः ।
यथा मूर्तत्वामूर्तत्वं प्रति मनसः क्रियाबत्त्वा स्पर्शस्वयोः ( प्रशस्त २
पृ० ४७ ) (वै० ३।१।१५) इति । २ संदेहविषयः । यथा संदिग्धा-
सिद्ध: ( न्या० बिन्दु० टी० ) इत्यादौ संदिग्धशब्दार्थः । ३ संलिप्तः
इति काव्यज्ञा आहुः ।
 
संदिग्धानै कान्तिकत्वम् – १ ( हेत्वाभासः ) साध्यतदभावसंशयकत्वम् ।
२ पक्षांशे साध्याभावसंशयात्मकं पक्षवृत्तित्वावगाहि व्यभिचारज्ञानम् ।
अथ वा हेतौ व्यभिचारसंशयः ( ग० बाघ ० ) । यथा धूमो वयभाव-
वद्वृत्तिर्न वा इत्यादिसंशयः । यथा वा बौद्धमते सर्वज्ञः कश्चिद्वक्तृत्वात्
( न्या० बिन्दु० टी० ) इत्यादौ ।
 
संदिग्धैकादशी – उदयात्प्राक्त्रिघटिकाव्यापिन्ये कादशी यदा । संदिग्धैका-
दशी नाम वर्जयेद्धर्मवृद्धये ॥ (पु० चि० पृ० १५२ ) ।
 
संदेह :— १ संशयशब्दवदस्यार्थोनुसंधेयः । २ आलंकारिकाश्च अर्थालंकार-
विशेष इत्याहुः । तदुक्तं काव्यप्रकाशे ससंदेहस्तु मेदोक्तौ तदनुक्तौ च
संशयः ( का० प्र० उ० १० श्लो० ६ ) इति ।
 
d
 
संधिः - १ संयोगः ( अमरः ३।२।११ ) । २ नृपाणां षड्गुणान्तर्गतो
मैत्रीकरणरूपव्यापार इति नीतिशास्त्रज्ञा आहुः । अत्रोक्तम् संधिविग्रह-
यानानि संस्थाप्यासन मेव च । द्वैधमाश्रयणं चैव षड्गुणा नीतिवर्णने ।
इति । संधिर्ना विग्रहो यानमासनं द्वैधमाश्रयः ( अमरः २/८/१८)
इति च । अत्राधिकं तु शुक्रनीतियुक्तिकल्पतरुहितोपदेशादौ द्रष्टव्यम् ।
३ वैयाकरणास्तु वर्णद्वयजातो वर्णबिकारः । यथा अच्संधिः हल्संधिः