2023-02-20 00:57:14 by ambuda-bot
This page has not been fully proofread.
:
न्यायकोशः ।
धिकी अनुगतप्रवृत्तिनिमित्तसंकेतवती नैमित्तिकी इति निर्वाच्याः इति ।
अन्यत्र चैवमुक्तम् । संज्ञा त्रिविधा पारिभाषिकी औपाधिकी नैमित्तिकी
चेति । तत्राद्या आधुनिकसंकेतशालिनी । यथा चैत्रादि: । द्वितीया
उपाधिप्रवृत्ति निमित्तिका । यथा पशुभूताकाशादिः । तृतीया जाति-
प्रवृत्तिनिमित्तिका । यथा पृथिवीजलादिः । भाष्यकृतस्तु आकाशादि-
संज्ञा: पारिभाषिक्य एव इत्याहु: ( प० मा० ) । शिष्टं तु रूढशब्द-
व्याख्याने संपादितमेव इति नात्र कथितम् ।
-गौरित्या दिशब्दोल्लेखिसंवित्प्रवाहः ( सर्व० सं० १०
-
संज्ञास्कन्धः
४० बौ० ) ।
संज्ञी - संज्ञाशब्दप्रतिपाचोर्थः । यथा संज्ञा संज्ञिसंबन्धज्ञानमुपमितिः इत्यादौ
-
गवयादिरूपोर्थः संज्ञी ( नील० ) ।
संततिः - १ अविच्छिन्नधारा । इयं संततिर्द्विविधा दैशिकी कालिकी
चेति । तत्र दैशिकी मूर्तानामेव । यथा तैलादीनाम् । कालिकी संत-
तिस्तु ज्ञानत्वसुखत्वादीनाम् । अत्र दैशिकसंततित्वं च स्वाधिकरण-
देशीयनानावच्छेदकवृत्तिधर्मत्वम् । तथा कालिकसंततित्वं च नाना-
कालीन कार्य मात्रवृत्तिधर्मत्वम् (चि० २ परिशि० मुक्तिवाद: पृ० ४५) ।
काव्यज्ञास्तु २ गोत्रम् । ३ पुत्रः दुहिता च । ४ विस्तारः ।
५ पङ्किच इत्याहुः ।
संतर्दनम् – परस्परं संयोगः (जै० सू० वृ० अ० ३ पा० ३ सू० २४ ) ।
संतान: १ एकधर्मावच्छिन्नत्वेन ज्ञानम् ( गौ० वृ० २।२।१७ ) । यथा
बौद्धमते आलयविज्ञानसंतानः । २ वंशः इति काव्यज्ञा वदन्ति ।
"संदंश: – एकाङ्गानुवादेन विधीयमानयोरङ्गयोरन्तराले विहितत्वम् । यथा-
भिक्रमणम् ( मी० न्या० पृ० २९ ) ।
संदर्भ:-१ कथनम् । अत्रोक्तम् गूढार्थस्य प्रकाशश्च सारोक्तिः श्रेष्ठया
गिरा । नानार्थवस्वं वेद्यत्वं संदर्भः कथ्यते बुधैः ॥ इति । २ वक्तृ-
तारपर्यविशेषः । ३ रचना । ४ प्रथनम् । ५ प्रबन्धः ।