This page has not been fully proofread.

न्यायकोशः ।
 
इत्यन्यत्रोक्तम् । [ ख ] द्रवत्वसहितस्नेहकारितः संयोगविशेषः ( बै०
वि० २१११२ पृ० ७२-७३ ) ( प० मा० ) । तथा हि । सहि
संग्रहः न द्रवत्वमात्रकारितः । काचकाञ्चनद्रवत्वेन संग्रहानुपपत्तेः ।
नापि स्नेहमात्रकारितः । स्त्यानैर्घृतादिभिः संग्रहानुपपत्तेः । तस्मात्
अन्वयष्यतिरेकाम्यां बेहद्रवत्वकारितः ( बै० उ० २१११२ पृ० ७२) ।
तेन द्रुतसुषर्णादीनां न संग्रह: ( भाषाप० लो० १५६ मु० ) इति ।
२ संक्षेपेण स्वरूपकथनम् । लक्षणस्वरूपविभाग प्रकारकज्ञानानुकूल:
संक्षिप्तो व्यापार इत्यर्थः ( वाक्य० ) । यथा तर्कसंग्रहः इत्यादौ
संग्रहशब्दस्यार्थ: ( त० दी० ) । ३ अनेकेषामेकत्र स्थापनं संग्रह इति
काव्यज्ञा वदन्ति । ४ बहुर्थकवाक्यानामेकत्र संकलनम् । अत्रोक्तम्
विस्तरेणोपदिष्टानामर्थानां सूत्रभाष्ययोः । निबन्धो यः समासेन संग्रहं
तं विदुर्बुधाः ॥ इति । ५ ग्रहणम् । ६ संक्षेपः । ७ महोद्योगः ।
८ व्याडिप्रणीतो व्याकरणग्रन्थविशेषः ।
 
९०८
 
संग्रहणम् -[ क ] सहासनं विविक्तेषु परस्परमुपाश्रयः । केशाकेशियहं चैष
सम्यक् संग्रहणं स्मृतम् ॥ स्त्रीपुंसयोर्मिथुनीभाव: संग्रहणम् ( मिताक्षरा
अ० २।२८२ ) । [ ख ] साहसशब्दवाच्यानां रहसि क्रियमाणानां
संग्रहणशब्दवाच्यत्वम् ( मिताक्षरा अ० २ श्लो० ७२ ) ।
 
———
 
संघः - १ प्रव्रजितविशेषोपग्रहेण वर्तमानपरिषत् ( न्या० वा० १११११४
पृ० ७९) । २ सजातीयप्राणिसमूहः । यथा संघे शक्तिः कलौ
नृणाम् इत्यादौ संघशब्दस्यार्थः । ३ जन्तुविशेषः ।
 
man kan kalian
 
संघातः - पदार्थसमुदायसंयोगः । यथा दिव्येन तेजसा संयुक्तानामाप्यानां
परमाणूनां परस्परसंयोगो द्रव्यारम्भकः संघाताख्यः । स च हिम-
करकादिपरमाणुद्रवत्व प्रतिबन्धकः ( प्रशस्त० द्रवस्त्वनि० पृ० ५२) ।
एवमन्येषामपि संघात ऊद्यः ।
 
संज्ञ: - १ संहतजानुकः । २ गन्धद्रव्यविशेषः ।
 
-
 
संज्ञा
 
-
 
- १ बुद्धिः । २ आख्या । ३ चेतना । ४ हस्तैरर्थसूचनम् ।
५ गायत्री । ६ सूर्यपत्नी । ७ संकेतवत्प्रातिपदिकम् (विशिष्टनाम)