2023-02-20 00:54:11 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
.
भावः । यथा असन्नधो गवात्मना । अघटः पट इति (प०० )
( बै० उ० ९/११४ ) । यया वा घटः पटात्मा न भवतीति ( सर्व०
औलु० पृ० २३३ ) । [घ ] तादात्म्यसंबन्धावच्छिन्न प्रतियोगिता कः
अभाव: ( त० सं० ) ( ग० सि० ) ( त० कौ० २१ ) । घटः पटो न
भवतीत्यादितो घटात्मा पटो न भवति इत्यर्थो बोध्यते । एवं च घटता-
दात्म्यस्याभावः घटतादात्म्येनावच्छिन्ना या घटनिष्ठा प्रतियोगिता तन्नि-
रूपको मेदो वा पढे वर्तते इत्यवधेयम् । [ङ ] इदमिदं न भवति
इदमेतद्भिन्नम् इति प्रतीतिसाक्षिक: अभावः ( न्या० म० १।११ ) ।
यथा घटः पटो न भवति इति प्रतीतिसाक्षिको मेद (ग० सि० )
( प्र० प्र० ) । अन्योन्याभावो धर्मिस्वरूप एव न तु पृथगिति मध्वाचार्या-
नुयायिन आहुः । अन्योन्याभावशब्दे व्युत्पत्तिस्तु अन्योन्यस्मिन् तादा-
त्म्येनाभावः अभवनम् इति ( वै० सा० ५० ३३४ ) । स च
( अन्योन्याभावः ) मेदः । मेदो हि घंटे पटस्य पढे घटस्य च
सदास्तीति नित्यः । प्रतियोगिसमानाधिकरणश्चायमभावो भवति । घटो
न भूतलम् इति प्रतीत्या घटाधिकरणेपि भूतले घटमेदस्य विद्य-
मानत्वात् । अत्रेदमवधेयम्-न हि कंचिदभावं प्रति येन केनापि
संबन्धेन प्रतियोगिनो विरोधिता । किंतु प्रतियोगितावच्छेदकसं-
बन्धेनैव प्रतियोगी अभावस्य विरोधी । तथा च अन्योन्याभावस्य
प्रतियोगितावच्छेदकः संबन्धस्तादात्म्याक्ष्य एव । अत एवायम-
भाव: तादात्म्यसंबन्धावच्छिन्नप्रतियोगिताकः इत्युच्यते । तेन
संबन्धेन च घटस्य स्वस्मिन्नेव सत्वेन भूतलादावसत्त्वाचत्र घटान्यो-
न्याभावो वर्तत इति ( वै० वि० ९/१४ ) । अन्योन्याभावग्रहेधिकर-
णयोग्यतामात्रं तन्त्रम् ( वै० उ० ९/११४ ) ( ९१११८ ) । यथा
पिशाचमेदाधिकरणे स्तम्मे योग्यतायाः सस्वेन स्तम्भः पिशाचो न इति
ग्रह: ( चाक्षुषग्रहः ) उपपद्यते ( मु० १।१२७) । नव्यास्तु ध्वंसप्रा-
गभाबयोरिवान्योन्याभावस्यापि प्रतियोगिताबच्छेदकसंबन्धे मानाभावः ।
अत्यन्तामावस्य तु प्रतियोगिताबच्छेदकसंबन्धः स्वीकियते । संयोगेन