This page has not been fully proofread.

९०६
 
न्यायकोशः ।
 
( मु० गु० ) इति । द्वित्वादिसंख्यायाः खल्वे कत्वेभ्योनेकविषयबुद्धि-
सहितेभ्यो निष्पत्तिः । अपेक्षाबुद्धिविनाशाद्विनाशः इति । कचिञ्चाश्रय-
विनाशाद्वित्वविनाशः ( प्रशस्त० पृ० २५ २६ ) इति । [ घ ]
शाब्दिकास्तु नियतविषयपरिच्छेदहेतुः संख्या इति वदन्ति । २ ज्ञान-
विशेष: ( सम्यग्बुद्धिः ) । यथा सांख्यः इत्यादौ संख्याशब्दार्थः ।
३ विचार: ( राजनि० ) ।
 

 
संगतिः - १ [ क ] एकवाक्यतापन्नत्वे सति अनन्तराभिधानप्रयोजक-
जिज्ञासाजनकज्ञान विषयोर्थः । यथा प्रत्यक्षनिरूपणकार्यत्वमनुमान-
निरूपणे संगतिः ( दीधि० २ पृ० २ ) ( म० प्र० पृ० १५)
( राम० २ पृ० १३४ ) । यथा वा सद्धेतुनिरूपणानन्तरमसद्धेतु-
निरूपणे व्यातिपक्षधर्मत्व विरहरूपप्रसङ्गसंगतिः ( ग० २ हेत्वा०
सामा० पृ० १ ) । संगतिश्च कस्यचिद्वस्तुनो निरूपणे ह्युपयुज्यते ।
अत्र व्याप्तिरनुसंधेया यद्यदनन्तरं निरूप्यं भवति तत्तत्संगतं भवति
( राम० २ पृ० १३४ ) इति । असंगतत्वज्ञानेन हि ग्रन्थादेरुन्मत्त-
प्रलपितत्वशङ्का उत्पद्यते । संगतत्वज्ञानेन तु तन्निवृत्तिः । तत एक-
वाक्यताप्रतिपत्तिः । तदेव संगतेः प्रयोजनम् ( भवा० ) । अत एव
प्रमाणमपि नासंगतं प्रयुञ्जीत इत्यभियुक्तोति: ( राम० २ पृ० १३४ ) ।
पूर्वापरप्रन्थैकवाक्यताप्रतिपत्तिः एकप्रयोजनवत्ताज्ञानफलिका प्रयोजनम्
( दीधि ० २ पृ० १ ) ( वै० सा० द० ) । संगतिलक्षणं तु प्रसङ्गा-
धन्यतमत्वम् ( भवा० ) । जायते च कार्ये कारणे वा ज्ञाते कारणत्वस्य
कार्यत्वस्य वा ज्ञानात् किमस्य कारणं कार्य वा इति जिज्ञासा । अत-
स्तयोर्द्वयोरपि संगतित्वम् ( दीवि० २ पृ० १-२ ) । तथा हि । प्रत्य-
क्षाभिषानानन्तरमनुमानाभिधानं निरूपणात्मकम् । तरप्रयोजकजिज्ञासा
प्रत्यक्षकार्यज्ञानं भवतु इत्याकारा । तज्जनकज्ञानं प्रत्यक्ष कार्यज्ञानमिष्ट-
साधनम् इत्याकारकम् । तद्विषयः प्रत्यक्षकार्यत्वम् । इति कार्यत्वे लक्षण-
समन्वयः । एवं कारणत्वादावपि संगतित्वमूह्यम् ( न्या० म० २
पृ० १५) । जिज्ञासायाः प्रयोजकत्वं चेत्थम् । प्रथमं ज्ञानेष्टसाधनता-