This page has not been fully proofread.

न्यायकोशः ।
 
आजानिकस्तत्र या शक्तिरिति गीयते ॥ कादा चित्कस्वाधुनिकः शास्त्र-
कारादिभिः : कृतः ( श० प्र० श्लो० २३ टी० पृ० २६ ) । इदं च
प्राचीनमताभिप्रायेण । नव्यमते च परिभाषापि शक्तिः इत्युच्यत
इति बोध्यम् । २ नर्तकास्तु मनोगतभावव्यञ्जनाय कृतो हस्तादिचेष्टा-
विशेष इत्याहु: । ३ साहित्यशास्त्रज्ञाश्च प्रियसंगमार्थ व्यवस्थापितं
गुप्त स्थानम् इत्याहुः ।
 
-
 
संकोचः - १ अवयवाकर्षणम् । यथा मतविशेषे मनसः संकोचविकाशशा-
लित्वात् (मा०प० श्लो० ८५ मुक्ता० ) इत्यादौ संकोचशब्दस्यार्थ:
आकुञ्चनम् । २ शाब्दिकास्तु बहुविषयकवाक्यस्याल्पविषयकतया
व्यवस्थापनम् इत्याहु: । ३ मीमांसकाश्च सामान्य शब्दस्य विशेषपरत्वं
संकोचः । यथा न हिंस्यात् इत्यस्य काम्यहिंसातिरिक्तहिंसापरत्वम्
इत्यङ्गीचक्रुः । काव्यज्ञास्तु ४ जडीभावः । ५ बोधः । ६ बन्धः ।
७ मत्स्य विशेषः । ८ कुङ्कुमम् इत्याहुः ( वाच० ) ।
संक्षेपः – १ एकस्मिन्ननेकेषां शब्दानामर्थानां वा संग्रहः । संक्षेपो द्विविधः
शब्दसंक्षेपः अर्थसंक्षेपश्चेति ( राम० ) । तत्र शब्द संक्षेपश्च भूयसोर्थ-
स्याल्पवाक्यादिना प्रकाशनम् । अर्थसंक्षेपश्चानुगमः । स च अनुगम-
शब्दस्यार्थवदनुसंधेयः । २ लघुत्वम् ।
 
-
 
संख्या – १ ( गुणः ) [ क ] एकत्वादिव्यवहार हेतुर्गुणविशेषः ( प्रशस्त •
पृ० १३ ) ( त० सं० ) । तथा चोक्तम् गुणत्वे सति हेतुत्वं तत्तद्धी-
व्यवहारयोः (ता० र० ) इति । सा च संख्या एकत्वादिपरार्ध पर्यन्ता
नषद्रव्य वृत्तिः चक्षुरिन्द्रियेण स्वगिन्द्रियेण च गृह्यते । संख्याप्रपञ्चस्तु
उपस्कारे (वै० उ० ७ १२१८ ) द्रष्टव्यः । मीमांसकास्तु संख्या गुणा-
दाबपि प्रतीतेः पदार्थान्तरमेव इत्याडुः । अत्रेदमनुसंधेयम् संख्या तु
व्यजकाभावादद्व्यक्ता प्रातरादिवत् । यत्र तु व्यञ्जकं किंचित्तत्र संख्या
प्रकाशते ॥ इति । [ख] संख्यात्वसामान्यषती । [ग] गणना-
व्यवहारासाधारणकारणम् । सा चैकत्वद्वित्वबहुत्वमेदाविविधा । एक-
स्वादिपरार्ध पर्यन्ता च ( त० सं ) ( प्र० प्र० ) ( त० कौ० ) । भत्रेदं
}}
 
१०४