This page has not been fully proofread.

+
 
4
 
९०२
 
न्यायकोशः ।
 
1
 
( सा० ८० परि० १० श्लो० ९९ ) इति । ६ धर्मज्ञास्तु अस्पृ.
श्यस्पर्शादिरूपः संसर्गः । यथा चाण्डालादिसंकर इत्याहुः । अथ
चाण्डालसंकरप्रायश्चित्तम् । तत्र च्यवनः चाण्डालसंकरेषु भवन-
दहनं पूरणं सर्वभाण्डभेदनं दारवाणां तक्षणं शङ्खशुक्तिरजतचेलानामद्भिः
प्रक्षालनं कांस्यताम्राणामाकरशुद्धिः सौवीरपयोदधितक्राणां परित्यागः
शेषरसयवसद्रव्यरक्षणं गोमूत्रयावकाहारो मासं क्षपयेत् बालवृद्धस्त्रीणामधे
प्रायश्चित्तम् इति । तथा आपस्तम्बोपि अन्त्यजातिरविज्ञातो निवसेद्यस्य
बेश्मनि । स वैज्ञात्वा तु काले तु कुर्यात्तत्र विशोधनम् ॥ चान्द्रायणं
पराकं वा द्विजातीनां विशोधनम् । प्राजापत्यं तु शूद्राणां तथा संसर्ग-
दूषणे ॥ इत्यादि । स्वल्पकालविषये सुमन्तुः अगम्यागमनस्त्रीवध-
चाण्डालसंपर्केषु कृच्छ्रत्रयम् इति । परंपरासंसर्गे तु वृद्धशातातपः
अशुचि संस्पृशेद्यस्तु एक एव स दुष्यति । तत्स्पृष्टोन्यो न दुष्येत
सर्वद्रव्येष्वयं विधिः ॥ इति । देवलोपि संस्पृश्याशुचिसंस्पृष्टं तृतीयं
वापि मानवः । हस्तौ पादौ च प्रक्षाल्य तोयेनाचम्य शुद्ध्यति ॥ इत्यादि ।
७ संमार्जन्यादिभिः क्षिप्तं रज इति काव्यज्ञा आहुः ।
 
संकल्प:
 

 
-
 
- १ अनासन्नक्रियेच्छा । यथा अनागतेषु सर्पव्याघ्रादिषु संकल्पजं
दुःखम् ( प्रशस्त ० २ पृ० ५१ ) इत्यादौ । २ धर्मज्ञास्तु कर्मसाध-
नायामिलापवाक्यम् । यथा मनसा संकल्पयति वाचाभिलपति कर्मणा
चोपपादयति ( ति० त० रघु० ) ( वाच० ) इत्यादी इत्याहुः ।
अत्रोक्तम् संकल्पमूलः कामो वै यज्ञाः संकल्पसंभवाः । व्रतानि यम-
धर्माश्च सर्वे संकल्पजाः स्मृताः ॥ ( एका० त० ) । संकल्पेन विना
राजन् यत्किंचित्कुरुते नरः । फलं स्यादल्पकं तस्य धर्मस्यार्धक्षयो
भवेत् ॥ ( ब्रह्मपु० ) इति । ३ कर्मज्ञाश्च अभीष्टसिद्धये इदमित्थमेव
कार्यम् इत्येवंरूपो मानसो व्यापार विशेष इत्यादुः । तत्रोक्तम् आशास्य
च शुभं कार्यमुद्दिश्य च मनोगतम् इति । संकल्पश्च द्विविध: भाव-
विषयः अभावविषयश्च । तत्राद्यः मयैतत्कर्तव्यम् इत्येवंरूपः । यथा
पूजादिसंकल्पः । द्वितीयस्तु मयैसन्न कर्तव्यम् इत्येवंरूपः । यथा उप-
वासादिसंकल्पः इति ।