This page has not been fully proofread.

न्यायकोशः ।
 
O
 
रपि जातियात् ( ल० म० ) इति । [ ख ] परस्परात्यन्ताभाषसामाना-
धिकरण्ये सति जायन्तरेण सामानाधिकरण्यम् । यथा भूतत्वस्य
मूर्तत्वादिना संकरः ( दि० १ ) ( वै० उ० १ । २ । ३ ) । तथा हि
मनोन्तर्भावेमाकाशान्तर्भावेन च परस्परं स्वस्वात्यन्ताभाव समानाधिकरण-
योर्भूतत्वमूर्तत्वयोः पृथिव्यादिचतुष्टये समावेशः इति भूतत्वं न जाति:
इति विज्ञेयम् । भूतत्वाभाववति मनसि मूर्तत्वं तिष्ठति । तथा मूर्तस्वाभाववति
चाकाशे भूतत्वं तिष्ठति । पृथिव्यादिभूतचतुष्टये तु भूतत्वं मूर्तत्वं चोभे
तिष्ठतः इति संकरो ज्ञेयः । २ धर्मान्तरस्य समावेशः । विभिन्नधर्मव-
तोपि धर्म्येक्यं वा । यथा उपधेयसंकरेप्युपाघेरसंकरः इत्याद्यभियुक्तोक्तौ
(चि० १) (ग० सामा० ) ( भवा० ) काञ्चनमयदो वह्निमान्
घूमात् इत्यादौ घूमरूपैकहेतौ बाधातिरिक्तस्याश्रयासियादेरपि समावेश:
संकरः । ३ अभेदः ( मू० म० प्रामाण्य० पृ० ४२० ) । यथा
अतिरिक्त विषयतापक्षे प्रकार मेदेनैकत्र विषयतामेद इति लक्षणद्वयसमा-
वेशाप्रमास्त्रमसंकरः ( चि० १ प्रामा० पृ० ४१८) इत्यादिप्रन्थे
संकरशब्दस्यार्थः अमेदः । ४ स्मृतिशास्त्रकृतस्तु एकवर्णपुरुषाद्विवाहित-
वर्णान्तरस्त्रियां जातो जातिविशेषः । यथा मूर्धावसिक्तसूतादिः इत्याहुः ।
अत्रेदं विज्ञेयम् अनुलोमजानामुपनयनादिसंस्काराईत्वम् प्रतिलोमजानां
तु तदनईत्वम् इति । वर्णसंकरजातिश्च अनुलोमजा प्रतिलोमजापि
नानाविधा । यथा विप्रान्मूर्धावसिक्तो हि क्षत्रियायां विशः स्त्रियाम् ।
जातोम्बष्ठस्तु शूद्रायां निषादः पार्षदोपि च ॥ ( गरुडपु० अ० ९६ )
इत्यादि । ब्राह्मणाद्वैश्यकन्यायामम्बष्ठो नाम जायते । निषादः शूद-
कन्यायां यः पारशव उच्यते ॥ ( मनु० अ० १० लो० ८-४१)
( याज्ञ० अ० १ लो० ९१-९२ ) इत्यादि । अत्रेदमधिकं ज्ञेयम् ।
व्यभिचारेण वर्णानामवेद्यावेदनेन च । स्वकर्मणां च त्यागेन जायन्ते
वर्णसंकराः ॥ ( मनु० अ० १० को० २४) इति । स्त्रीषु दुष्टासु
वार्ष्णेय जायते वर्णसंकरः ( गीता अ० १ को० ४१ ) इति च ।
५ आलंकारिकास्तु अलंकार विशेष इत्याहुः । तदुक्तम् अङ्गाङ्गित्वे-
लंकृतीनां तद्वदेकाश्रयस्थिता । संदिग्धत्वे च भवति संकरविविधः पुनः ॥
 
M