This page has not been fully proofread.

न्यायकोशः ।
 
विज्ञेयम् ( श० प्र० लो० ६७ टी० पृ० ७८) । गुरुविप्रतपस्वि-
दुर्गतानामित्यत्र शाब्दिकास्तु विपत्तौ इति अध्याहृतनामार्थे षष्टयर्थान्वयः
इति नेयं कारकषष्ठी इत्याहु: ( का० व्या ० ) । तण्डुलस्य पाचक इत्यत्र
धास्वर्थे पचनादौ कृद्योगे कर्तृकर्मणोः षष्ठयनुशिष्टे: कर्मत्वकर्तृत्वादिकं
कारकमेव इति कारकार्यैव षष्ठी इति ज्ञेयम् ( श० प्र० पृ० ७८ ) ।
यद्वा अत्र कर्मणि द्वितीया (पाणि० २।३।२) कर्तृकरणयोस्तृतीया
( पाणि० २१३११८) इत्याभ्यां सूत्राभ्यां विहिताभ्यां द्वितीया तृतीयाभ्यां
शक्त्या बोधिते कर्तृत्वकर्मत्वे कर्तृकर्मणोः कृति (पाणि० २१३२/६५ )
इति सूत्रेण विहिता षष्ठी लक्षणया बोधयति इति ज्ञेयम् । लक्षणाबीजं तु
तादृशयोः कर्तृत्वकर्मत्वयोः संबन्धत्वेन बोधने तात्पर्यानुपपत्तिरेव । प्रकार-
तथा बोधन एव तात्पर्यादिति हृदयम् । अत्रायं विशेषोनुसंधेयः ।
कारक विभक्तिभिन्न विभक्त्यर्थस्य क्रियायामनन्वयः इति नियमो नास्ति ।
तथा हि मणिकारमते तस्माज्जानाति इत्यादौ ज्ञानादिरूपधात्वर्थे हेतु-
विभक्त्यर्थस्यान्त्रयः । तस्मात्स्थीयते इत्यादौ च सर्वमत एव धात्वर्थ-
स्थित्यादौ हेतुविभक्तयर्थस्यान्वयः । गुरु विप्रतपस्विदुर्गतानां प्रतिकुर्वीत
भिषक् स्वभेषजैः इत्यादौ तु षष्ठ्यर्थसंबन्धस्यापि धात्वर्थेन्वयो दृष्टः इति
तादृशनियमो नास्ति ( ग० व्यु० का० २ ख० २ पृ० ५६ ) इति ।
गुरुविप्रेत्यत्र शाब्दिकानुयायिनस्तु रोगे इति नामाध्याहृत्य तदर्थे षष्ठ्य-
र्थस्य संबन्धस्यान्वयः कर्तव्यः । तथा च संबन्धस्य कारकत्वाभावेन
क्रियायोगाभावान्नेयं कारकपष्टी इत्याहुः ( का० व्या० पृ० १ ) ।
शेषषष्ठी त्यस्यायमर्थः । शेष: कारकादवशिष्टः स्वस्वामिभावावयवावय-
विभावादिः संबन्धः कारकादन्यो वा । तत्रार्थे षष्ठी शेषषष्ठी इत्यु-
च्यते । यथा राज्ञः पुरुषः रजकस्य वस्त्रं ददाति इत्यादौ षष्ठी । राज्ञ
इत्यत्र षष्ट्या स्वत्वरूपः संबन्धो बोध्यते । स च न कारकम् । नवा
तदर्थिका षष्ट्यादिः कारकविभक्तिः इति ज्ञेयम् । रजकस्येत्यत्र च
परिष्कार्यत्वादिलक्षणः संबन्धो वस्त्रादावेव षष्ठयानुभाव्यते इति शेषषष्ठी
इति विज्ञेयम् ( श० प्र० श्लो० ६७ टी० पृ० ७७ ) । २ मौहूर्तिकास्तु
चन्द्रमसः षष्ठकलाया ह्रास वृद्धिरूपक्रियात्मकस्थितिविशेषः इत्याहुः ।