2023-02-20 00:57:12 by ambuda-bot
This page has not been fully proofread.
८९८
न्यायकोशः ।
लो० ६६ पृ० ७६ ) इति । अत्रेदं शाब्दिकमतं विज्ञेयम् । षष्ठयर्थ:
संबन्धत्वेन तत्तद्रूपेण च स्वस्वामिभावादिः संबन्धः संबन्धत्वेन क्रिया-
कारकभावश्च । अत एवानेक संबन्धसस्वेपि स्वत्वादिसंबन्ध विशेषतात्पर्येण
चैत्रस्य नेदं वासः इति प्रयुज्यते । अत एव एकशतं षष्ठयर्थाः इति
षष्ठी स्थानेयोगा ( पाणि० ११११४९ ) इति सूत्रस्थं भाष्यं संगच्छते ।
द्वितीयादितश्च क्रियाकारकभावस्य तत्तद्रूपेणैव बोधः । तथैवानुभवात् ।
मातुः स्मरति इत्यादौ च तत्तद्रूपेण बोधे द्वितीयादीनां बाधिकानां
सवात्संबन्धत्वेनैव बोध: मातृसंबन्धि स्मरणम् इति नव्या आद्भुः ।
प्राश्चस्तु भत्रापि क्रियाकारकभावमूलकं विशेषणत्वरूपं विषयत्वमेव
निमित्तत्वमेव वा तत्त्वेन संबन्धत्वेन वा विवक्षितम् । क्रियाकारकभाव-
संबन्ध: कारणम् । शेषसंबन्धस्तु फलभूतः । यथा राज्ञः पुरुष इत्यत्र
राजपुरुषौ कर्तृसंप्रदानरूपावभूताम् राजा पुरुषाय ददाति इति ।
तन्मूलकस्व स्वामिभाव प्रतीतौ कर्त्रादिविशेषरूपतानवगमः इत्यादुः ( ल०
म० कार० ६ पृ० ११३ ) । अत्रायं विवेकः । षष्ठी द्विविधा कारकषष्ठी
शेषषष्ठी चेति । शब्दशक्ति प्रकाशिकाक्कृन्मते यया धात्वर्थे प्रकारतया
कर्तृत्वकर्मत्वादि बोभ्यते सा कारकषष्ठी । यया तु धात्वर्थातिरिक्ते
स्वार्थशेषः संबन्धः बोध्यते सा शेषषष्ठी । गदाधरादीनां मते तु
यया धात्वर्थे स्वार्थ कर्तृत्वकर्मत्वादि संबन्धत्वेनैव बोध्यते न तु प्रकार-
तया सा कारकषष्ठी । यया तु धात्वर्थातिरिक्ते स्वार्थः संबन्ध-
त्वेनैव बोध्यते सा शेषषष्ठी इति चिन्तनीयः । अत्रेदमवधेयम् ।
क्रियाप्रकारीभूतोर्थ: कारकम् । तत्रार्थे षष्ठी कारकषष्ठी इत्युच्यते ।
यथा सा लक्ष्मीरुपकुरुते यया परेषाम् । पद्मस्यानुकरोत्येष कुमारीमुख-
मण्डलः । गुरुविप्रतपस्विदुर्गताना प्रतिकुर्वीत भिषक् स्वभेषजैः इत्यादा-
वपि मातुः स्मरति चौरस्य हिनस्ति जलस्योपस्कुरुते इत्यादाविष क्रियावि
शेषयोगे कारकार्यैव षष्ठी । तण्डुलस्य पाचकः मैत्रस्य भोक्तव्यम् इत्यादा-
वपि षष्ठी कारकषष्ठ्येव (श० प्र० पृ० ७८) । सा लक्ष्मीरित्यत्र प्रयोग-
दृष्टया प्रत्यनूपेभ्यः करोतेः कर्मण्यपि वैकल्पिकः षष्ठीविधिर्वक्तव्यः इति