This page has not been fully proofread.

न्यायकोशः ।
 
४३
 
थासिद्धः ( ता० र० श्लो० ८८ ) । यथा घटं प्रति रासमोन्यथा-
सिद्धः ( ५ ) । परेतु अत्र अवश्यक्लृप्तत्वं लघुनियतपूर्ववर्तित्वं बोध्यम् ।
तेन पाकजगन्धोत्पत्ति प्रति अवश्यकृतपूर्ववर्तिनः पाकजरूपप्रागभावस्य
कारणत्वनिरास: गन्धप्रागभावस्यान्यथासिद्धत्वनिरासश्चेत्याहुः ( दि०
(
११५४ ) । एतेषु पञ्चस्वन्यथासिद्धेषु पञ्चममावश्यकम् । अन्येषां चतुर्णां
( दण्डत्व दण्डरूप आकाश कुलालपितॄणाम् ) अनेन पञ्चमान्यथासि-
देनैव संग्रहादिति बोध्यम् ( भा०प० लो० २२ ) ( मु० ५४ )
( दि० ) ( राम० ११५४ ) । अन्यथासिद्धस्त्रिविध इति मणिकारम-
तम् । नवीनास्तु लघुनियतपूर्ववर्तिन एव कार्यसंभवे तद्भिन्भमन्यथासि
द्धम् । एवमनुगतै कलक्षणेनै कविधमेवान्यथासिद्धम् । एवं च त्रिधा पञ्चघेति
प्रकारौ शिष्यबुद्धिवैशधायेत्याहुः । अत्र लघुत्वं च त्रिविधम् । शरीर-
कृतम् उपस्थितिकृतम् संबन्धकृतं चेति । तत्र प्रथमम् - प्रत्यक्षं प्रत्यनेक-
द्रव्यत्वापेक्षया महत्त्वस्य कारणत्वे लघुत्वमस्ति । द्वितीयम्-गन्धं प्रति
रूपप्रागभावापेक्षया गन्धप्रागभावस्य कारणत्वे लघुत्वम् । गन्धस्य प्रति-
योगिन उपस्थितत्वेन शीघ्रं तदुपस्थितेः । तृतीयम् - घटं प्रति दण्डत्वद-
ण्डरूपाद्यपेक्षया दण्डादेः कारणत्वे लघुत्वम् । स्वाश्रयदण्डसंयोगादिरूप -
परंपराया गुरुत्वात् ( नील० १७ ) ।
 
अन्यथासिद्धिः-
पूर्वोक्तेष्वन्यथासिद्धेषु वर्तमानस्तत्तद्धर्मविशेषः । इयं व
कारणत्वसंपादिका न भवति अपि तु कारणत्वविघटिका भवतीति
ज्ञेयम् ।
 
अन्योन्यम् -क्रियाव्यतिहारविषयत्वम् । व्यतिहारथ विनिमयः । परस्परक-
रणमिति यावत् ( ल० म० ) । यथा अन्योन्येषां पुष्करैरामृशन्त इति
माघ : ( सि० कौ० त० ) ।
 
अन्योन्याभावः ( अभावः ) [ क ] नित्यत्वे सत्यत्यन्ताभावमिन्नत्वे
सत्यभावः ( ग० सि० ) । [ ख ] अत्यन्ताभाषव्यतिरिक्तत्वे सत्यनव-
घिरभावः ( सर्व० औलु० पृ० २३२ ) । [ग] अधिकरणे प्रतियो-
गिताबच्छेदकारोपहेतुकनिषेधधीविषयः ( प० च० ) । स च तादात्म्या-