2023-02-20 00:57:11 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
८९७
बासमासाय दुनोत्यहरहर्निशम् ॥ ( मृगु - भार० ) ( वाच० ) इति च ।
२ शाब्दिकास्तु शिक्षोको वर्णोचारणार्थो बाह्यप्रयत्नविशेष इव्याडः ।
पडहः - अहोरात्रसाम्य एकः सोमयागो वेदे अहःशब्देनोच्यते । तादृशानां
षण्णामहर्विशेषाणां गणः षडहः । पञ्चभिः षडहैर्मासो भवति । तत्र
चत्वारः षडहा अभिप्लवसंज्ञाः । पञ्चमः पृष्ठ्यसंज्ञ: ( पुरु० पृ० १०) ।
षष्ठी - १ ( विभक्तिः ) [ क ] यत्किंचिद्वात्वर्थे स्वार्थान्वयाबोधिका सुप् ।
यथा चैत्रस्येदम् इत्यादौ षष्ठी । अत्र संबन्धविवक्षायां कारक विभक्तय-
प्रसक्तेः षष्ठी शेषे (पाणि० २१३१५० ) इत्यनेन सूत्रेण चैत्रस्येदम्
इत्यादौ षष्ठी । चैत्रस्य द्रव्यम् इत्यादौ स्वस्थस्य चैत्रस्य स्वम् घटस्
कारणम् चैत्रस्य हस्तः इत्यादौ निरूपितत्वावयवत्वादीनां संबन्धवेनैव
षष्ठ्यर्थता न तु विशिष्य निरूपितत्त्वत्वावयवत्वत्वादिना शत्यानन्त्य-
प्रसङ्गात् । संयोगादिसंबन्धसत्त्वेपि चैत्रस्य नेदं वासः इत्यादौ खावादि-
संबन्धविशेषबोधतात्पर्येण यत्र नञ् प्रयुज्यते तत्र विशेषरूपेण षष्ठ्याः
लक्षणैव । इत्थमेव च संबन्धस्वेन कर्मत्वादिविवक्षया मातुः स्मृतम्
इत्यादौ अधीगर्थदयेशां कर्मणि ( पाणि० २/३५२) इत्यनुशासनस्य
नियमपरतया सार्थक्योपपादनं वृत्तिकृतामुपपद्यते । एवमेव नाग्निस्तृप्यति
काष्ठानां न पुंसां वामलोचनाः इत्यादौ करणस्वादे: संबन्धत्वेन विवक्षायां
बचुपपत्तिः । अत एव च आमं शूद्रस्य पकानं पक्कमुच्छिष्टमुच्यते
इत्यत्र पक्कम् इत्यत्रानुषज्यमानायाः षष्ठयाः संबन्धत्वेन कर्तृत्वमर्थः न तु
स्वस्वम् । शूदकर्तृकवृषोत्सर्गे चरुहोमानुपपचेः इति नवीनस्मार्तानां
मतमप्युपपद्यते ( ग० म्यु० का० ६ १० ११२ ) । [ख ] शाब्दिका-
दयस्तु संबन्धसामान्ये स्वत्वादौ वा शक्ता सुप् । यथा राज्ञः पुरुषः
चैत्रस्य धनम् इत्यादौ षष्ठी इति वदन्ति । ग्रामं गच्छति पटं ददाति
इत्यादौ च धात्वर्थतावच्छेदकीभूते संयोगस्वत्वादौ द्वितीययाधेयत्वमेव
बोध्यते न तु संबन्धसामान्यं बोध्यते इति न तत्रातिप्रसङ्गः ( श० प्र०
११३ न्या० को●