This page has not been fully proofread.

न्यायकोशः ।
 

 
याबद्रव्यभावित्वेन वायुविशेषगुणत्वाभावात् ( मु० १ आकाशनि ०
१० ८८ ) इति । [ ख ] बने सिंहनादः इति शब्दप्रत्यक्षासाधारण-
कारणम् । सञ्च कर्णशष्कुल्ववच्छिन्नं नमः ( प्र० प्र० ) ( न्या० म० १
पृ० १४ ) ( स० कौ० ) । अत्र माष्यम् । श्रोत्रं पुनः श्रवणविवर -
संज्ञको नभोदेशः । शब्दनिमित्तोपभोगप्रापकधर्माधर्मोपनिबद्धः । तस्य
व नित्यस्वे सत्युपनिबन्धकवैकल्याद्वाधिर्यम् ( प्रशस्त ० पृ० ७) इति ।
नव्यास्तु ईश्वर एवं श्रोत्रेन्द्रियम् नेश्वरादतिरिक्तम् इत्याहुः ( राम० १
पृ० ११८ ) । सांख्या वेदान्तिनश्च सात्त्विकांशसूक्ष्मांशः श्रोत्रम्
इत्याहुः । तम्मते शब्दस्य पञ्चभूतगुणतया शब्दाधारबायुना झटिति
कर्नदेशे यथावेगं धावमानेन कर्णप्रापणसंभवः । तेन शब्दोपलम्भः
इति । तम्मते श्रवणेन्द्रियस्य प्राध्यकारित्वम् इत्युक्तिरप्येतत्परा इति
बोध्यम् ( बाच० ) 1 काव्यज्ञास्तु श्रोत्रेन्द्रियाधारो गोलकं कर्णः
श्रोत्रम् इत्याहुः ।
 
८९६
 
लाधनम्
 
बोधविषया स्तुतिः । यथा गोपी स्मरात्कृष्णाय श्लाघते इत्यादौ
लाघतेरर्थः । अत्र धात्वर्थघटकबोधाश्रयस्य श्लाघहुड्स्थाशपां ज्ञीप्स्यमानः
(पाणि० १/४/३४ ) इति सूत्रेण संप्रदानत्वम् । ज्ञीप्स्यमानपदेन
प्रधानभूतण्यर्थकर्मणो ग्रहणम् । अत्र श्लाघधात्वर्यैकदेशस्य बोधस्य
फळतावच्छेदकः संबन्धो वृत्तिता । स्तुतिस्तु गुणवत्वप्रतिपादकशब्द-
प्रयोगादिः । स्मरात् इति हेतौ पञ्चमी । एवं च गोपीकर्तृका स्मरहेतु-
कृष्णसंप्रदानिका अर्थात् कृष्णवृत्तिबोधविषया स्तुतिः इति बोधः
( उ० म० कारक० ४ पृ० १०२ ) ।
 
मासः •१ बायुव्यापारविशेषः । यथा मनुष्यस्य पृथगेकैकस्मिन्दिन
एकविंशतिः सहस्राणि षट् शतानि च ( २१६००) श्वासा भवन्ति
इति । श्वासो नाम बाह्यस्य वायोरन्तरामयनम् ( सर्व० सं० पृ० ३७६
पात ० ) । २ रोगविशेषः इति भिषज आहुः । श्वासहेतुरुक्तः यस्तु यज्ञं
समासाय पशुश्वास निरुद्धय च । हन्ति खादति बा तं स महाश्वासेन
मृझते ॥ इति । पौराणिककथामध्ये यस्तु बाच्चान्यथा बदेत् । स ऊर्ध्व-