2023-02-20 00:57:10 by ambuda-bot
This page has not been fully proofread.
८९२
न्यायकोचः ।
वाश्चैव तथा चान्यः पुरूरवाः ॥ विश्वेदेवा भबम्लेते दश आद्धेषु पूजिताः
इति। [ग] श्रद्धा हेतुकदानरूप कर्मविशेषः । तदाहापस्तम्बः अयैत-
न्मनुः श्राद्धशब्दं कर्म प्रोवाच ( आपस्त धर्मसू० २१७/१६/१
-
तु
५० ७६ ) । तदर्थश्च श्राद्धम् इति शब्दो बाचको यस्य तत्कर्म
(श्राद्धविवेकः) इति । पुलस्त्योप्याद संस्कृतं व्यञ्जनाचं च पयोदधिघृता-
न्वितम् । श्रद्धया दीयते यस्मात् तेन श्राद्धं निगद्यते ॥ (श्राद्धतत्त्व ० )
इति । अस्मिंश्च कर्मणि यागादाविन्द्रादीनामिव पित्रादेर्देवतात्वम् ।
तदुदेशेन मन्त्रद्वारा द्रव्यत्यागात् । तथा च यागादौ मन्त्राहूता इन्द्रादयः
शक्तिमात्रेण तत्स्थले आविर्भूता यजमानत्यक्तद्रव्यदर्शनेन तृप्यन्तस्तेषाम-
भीष्टफलं यथा साधयन्ति तथा श्राद्धेपि मन्त्राहूताः पित्रादयः समागताः
पुत्रादित्यक्तद्रव्यभोगेन तृप्यन्तो विशिष्टफलप्रदाः भवन्ति इत्येवं कल्प-
नीयम् इति । अत्रेदं बोध्यम् । देबदत्तादिशब्दस्य यथा न केवलं देह-
मात्रम् न वा जीवमात्रमर्थः । किंतु तत्तदेहाभिमानी जीव एवार्थः ।
तथा पित्रादिशब्दस्य उत्पादकदेहाभिमानी केवलं जीवोपि नार्थः ।
किं तु वसुरुद्रादित्यदेवाधिष्ठितत्तादृशजीव एवार्थः । तथा चोक्तम् वसवः
पितरो ज्ञेया रुद्रा ज्ञेयाः पितामहाः । प्रपितामहाश्चादित्याः श्रुतिरेषा
सनातनी ॥ प्रेतानुद्दिश्य यत्कर्म क्रियते मानुषैरिह । तृप्यन्ति देवता-
स्तेन न नेताः पितरः स्मृताः ॥ ( श्राद्धकल्पे देवल०) इति । तथा च
यथा काचिद्गर्भिणी सुहृदा दत्तं दोहदं भुञ्जाना स्वयं तृप्यन्ती स्वाश्रयं
गर्ने च तर्पयन्ती दोहददातारमप्युपकरोति तथा वस्वादयोपि श्राद्धान-
दर्शनमात्रतृप्ताः स्वाधिष्ठितपित्रादीन् तर्पयन्तः श्राद्धकर्तुरपीटदातारो
भवन्ति इति ज्ञेयम् ( वाच० ) । अत्र छान्दोग्यश्रुतिः तद्यत्प्रथमममृतं
तद्वसव उपजीवन्त्यग्निना मुखेन न वै देवा अनन्ति न पिबन्त्येतदेवा-
मृतं दृष्ट्वा तृप्यन्ति ( छा० उ० ३।६।१ ) इति । ब्राह्मणादिसंप्रदानक-
क्रियाया इव श्राद्धकर्मण एव स्वजन्य पुण्यद्वारा विशिष्टफलजनकता ।
तत्र कालान्तरभावितत्तत्फलदानाय तत्कर्मसाक्षिणः परमेश्वरस्यैव तत्सा-
धनत्वम् । तथा च यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति ।
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥ ( गीता अ० ७