2023-02-20 00:57:10 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
८९१
त्रिविधम् नित्यम् नैमित्तिकम् काम्यं चेति । तत्र नित्यम् नियतनिमित्तो-
पाधौ चोदितम् । यथा अहरहरमावास्याष्टकादिषु विहितं श्राद्धम् ।
अनियतनिमित्तोपाधौ चोदितं नैमित्तिकम् । यथा पुत्रजन्मादिषु विहितं
श्राद्धम् । फलकामनोपाधौ विहितं काम्यम् । यथा स्वर्गादिकामनायां
कृत्तिका दिनक्षत्रेषु विहितं श्राद्धम् । पुनश्च पञ्चविधम् अहरहः श्राद्धम्
पार्वणम् वृद्धिश्राद्धम् एकोद्दिष्टम् सपिण्डीकरणं चेति ( मिता० अ० १
श्लो० २१६) । [ख ] पित्राद्युद्देश्यको यागः ( का० व्या० पृ० ५) ।
संबोधनपदोपनीतान् पित्रादीन् चतुर्थ्यन्तपदेनोद्दिश्य पुत्रादिमिर्मत्रद्वारा
श्रद्धयानादेर्दानं श्राद्धम् इत्यर्थः । अत्र विभक्तिनियमश्च संकल्पासनयोः
षष्ठी द्वितीयावाहने तथा । अन्नदाने चतुर्थी स्याच्छेषाः संबोधने
स्मृताः ॥ इति । श्राद्धस्य यागत्वं विज्ञाय श्राद्धकाले ब्राह्मणा इमां
स्मृति पठन्ति चतुर्भिश्च चतुर्मिश्च द्वाभ्यां पञ्चभिरेव च । हूयते च
पुनम्यां स मे विष्णु प्रसीदतु ॥ इति । तदर्थस्तु चतुर्भि: ( आश्रा-
वय इत्यध्वर्युप्रयोज्यैश्चतुरक्षरैः ) चतुर्भिः (अस्तु श्रौषट् इत्याग्नीध्रप्रयो-
ज्यैश्चतुरक्षरैः ) द्वाभ्याम् ( यज इत्यध्वर्युप्रयोज्याभ्यां द्वाम्यामक्षराभ्याम् )
पञ्चभिः ( ये यजामहे इति होतृप्रयोज्यैः पञ्चभिरक्षरैः ) द्वाभ्याम्
( बौषट् इति होतृप्रयोज्याभ्यां द्वाभ्यामक्षराभ्याम् ) एभिः सप्तदशभि-
रक्षरैर्यो हृयते हवनकर्मीक्रियते स विष्णुः मे मम प्रसीदतु प्रसन्नो
भवतु इति । अत्र यजुःश्रुतिः प्रमाणम् आश्रावयेति चतुरक्षरमस्तु
श्रौषडिति चतुरक्षरं यजेति द्व्यक्षरं ये यजामह इति पञ्चाक्षरं व्यक्षरो
वपटूार एष वै सप्तदशः प्रजापतिर्यज्ञमन्वायत्तो य एवं वेद प्रति यज्ञेन
तिष्ठति ( तैत्तिरीयसंहि० काण्ड० १ अ० ६ अनु० ११ ) इति ।
श्राद्धे ब्राह्मण संख्या नियमो याज्ञवल्क्येनोक्तः । यथा द्वौ दैवे प्राक्
त्रयः पित्र्ये उदगेकैकमेव वा । मातामहानामप्येवं तत्रं वा वैश्वदेविकम् ॥
( याज्ञ० अ० १ श्लो० २२८) इत्यादि । श्राद्धदेवाश्च दशविधा
गणदेवताभेदाः । यथोक्तम् वसुसत्यौ ऋतुदक्षौ कालकामौ धुरिः कुरुः ।
पुरूरवा मार्दवाश्च विश्वेदेवाः प्रकीर्तिताः ॥ (वाच० पृ० ४९२५ ) इति ।
अन्यच्च ऋतुर्दक्षो वसुः सत्यः कामः कालस्तथा धुरिः । रोचनो माद्र-