This page has not been fully proofread.

८९०
 
न्यायकोशः ।
 
युक्तं कर्म यत् क्रियते नृभिः । सुविशुद्धेन भावेन तदानन्त्याय कल्पते ॥
इति । अश्रद्धाप्रयोजनं च भगवद्गीतायाम् अश्रद्धया हुतं दत्तं तपस्तप्तं
कृतं च यत् । असदित्युच्यते पार्थ न च तत् प्रेत्य नो इह ॥
( गीता अ० १७ श्लो० २८) इति । अज्ञश्चाश्रद्दधानश्च संशयात्मा
विनश्यति ( गीता ४।४० ) इति च । इयं श्रद्धा त्रिविधा त्रिविधा
भवति श्रद्धा देहिनां सा स्वभावजा । सात्त्विकी राजसी चैव तामसी
चेदितां शृणु ॥ ( गीता अ० १७ श्लो० २ ) इति । [घ ]
आस्तिक्यबुद्धिः श्रद्धा इति पौराणिका वदन्ति । २ आदरः । ३ शुद्धिः ।
४ स्पृहा । ५ चित्तप्रसादः ।
 
-
 
श्रपणम् – रूपादिपरावृत्त्युपलक्षिताधःसंतापनम् । यथा कृष्णलं श्रपयेत्
इत्यादौ श्रपयत्यर्थः । कृष्णलो यवत्रयमितं सुवर्णम् ( म० प्र० ४
पृ० ५६ ) ।
 
श्रवणम् – १ श्रोत्रेन्द्रियजन्यं शब्दविषयकं ज्ञानम् । यथा श्रूयते सुपुरुष-
चरितं किं तद्यन्न हरन्ति काव्यालापाः इत्यादौ । २ श्रुतिवाक्योत्थं
ज्ञानम् । यथा आत्मा वारे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः
( बृ० २।४।५ ) इत्यादौ ( म० प्र० १ ) । यथा वा श्रोतव्यः
श्रुतिवाक्येभ्यो मन्तव्यश्चोपपत्तिभिः इत्यादौ । अत्र श्रवणं च श्रुतिपद-
पक्षिका संसर्गज्ञानानुमितिः (प० च०प० २० ) । ३ अशेषशब्द-
विषयं सिद्धिज्ञानं श्रवणम् ( सर्व० सं० १० १६६ नकु० ) ।
४ शब्दप्राहकमिन्द्रियम् श्रोत्रम् । ५ मौहूर्तिकास्तु अश्विन्यादिषु
द्वाविंशो (२२) नक्षत्र विशेष इत्याहुः । ६ मुण्डरिकावृक्षः ( वाच ० ) ।
श्राद्धपक्षः - अर्को नभस्यकन्यास्थे श्राद्धपक्षः प्रकीर्तितः ( देवल: )
 
-
 
( पु० चि० पृ० २१ ) ।
 
-
 
श्राद्धम् - [क] अदनीयस्य तत्स्थानीयस्य वा द्रव्यस्य प्रेतोदेशेन श्रद्धया
त्यागः । अत्र व्युत्पत्तिः श्रद्धया दीयते यस्माच्छ्राद्धं तेन निगद्यते इति ।
श्राद्धं द्विविधम् पार्वणम् एकोद्दिष्टं चेति । तत्र त्रिपुरुषोद्देशेन यत्क्रियते
तरपार्वणम् । एक पुरुषोद्देशेन क्रियमाणमेकोद्दिष्टम् । पुनश्च श्राद्धं